SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गसूत्र - प्रथम श्रुतस्कंध की प्रस्तावना अर्हम् श्रीमद्गणधरवरश्रीसुधर्मस्वामिनिर्मितम् श्रीशीलाङ्काचार्यकृत टीका और भाषानुवादसहित श्रीसूत्रकृतालसूत्र के प्रथम अध्ययन की प्रस्तावना स्वपरसमयार्थसूचकमनन्त'गमपठयार्थगुणकलितम्। सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य व्याख्यातममिह यद्यपि सूरिमूख्यैर्भक्त्या तथापि यियरीतुमहं यतिष्ये । किं पक्षिराजगतमित्ययगम्य सम्यक् तेनैव वाञ्छति पथा शलभो न गन्तुम् ? ॥२॥ ये मय्ययज्ञां व्यधुरिद्धबोधाः जानन्ति ते किञ्चन तानपास्य । मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष यत्नः ॥३॥ इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभं मनुजत्वं, सुकुलोत्पत्तिसमग्रेन्द्रियसामग्र्याधुपेतेनार्हद्दर्शने, ऽशेषकर्मोच्छित्तये यतितव्यम् । कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः । असावप्याप्तोपदेशमन्तरेण न भवति । आप्तश्चात्यन्तिकाद्दोषक्षयात्। स चाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः । आगमश्च द्वादशाङ्गादिरूपः । सोऽप्याव॑रक्षितमित्रैरैदंयुगीनपुरुषानुग्रहबुद्धया चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः । तत्र चाचाराङ्ग चरणकरणप्राधान्येन व्याख्यातम् । अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति । ननु चार्थस्य शासनाच्छास्त्रमिदम् । शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं, शिष्यप्रशिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते ? सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्कारादिरूपम्, अस्य च प्रणेता सर्वज्ञस्तस्य चापरनमस्का-भावान्मङ्गलकरणे प्रयोजनाभावाच्च न मङ्गलाभिधानम्, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणम्, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आह - तित्थयरे य जिणयरे सुत्तको गणहरे य णमिऊणं । सूयगडस्स भगयओ णिज्जुत्तिं कितड़स्सामि ॥१॥नि गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं पश्चार्द्धन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थं प्रयोजनादित्रयमिति । तदुक्तम्“उक्तार्थ' ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥१॥ तत्र सूत्रकृतस्येत्यभिधेयपदं "नियुक्तिं कीर्तयिष्य10" इति प्रयोजनपदम् । प्रयोजनप्रयोजनं तु मोक्षावाप्तिः । सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथङ्नोक्तः । तदुक्तं"शास्त्रं प्रयोजनञ्चेति, सम्बन्धस्याश्रयायुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात्' ॥१॥ इति समुदायार्थः । अधुनाऽवयवार्थः कथ्यते । तत्र तीर्थं द्रव्यभावभेदाद् द्विधा । तत्रापि द्रव्यतीर्थं नद्यादेः 1"समुत्तरणमार्गः, भावतीर्थं तु सम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तारकत्वात् । तदाधारो वा सङ्घः प्रथमगणधरो वा तत्करणशीलास्तीर्थङ्करास्तानत्वेति क्रिया । तत्राऽन्येषामपि तीर्थकरत्वसंभवे तद्व्यवच्छेदार्थमाह 'जिनवरान्' इति। रागद्वेषमोहजितो जिना, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति तद्व्यवच्छेदार्थमाह वराः प्रधानाश्चतुस्त्रिंशदतिशयसमन्वितत्वेन, 1. सदृशपाठाः । 2. शब्दपर्यायाः। 3. अभिधेयगुणाः । 4. पक्षिराजगतमप्यवगम्येति प्र. । 5. त्मौ जौ गौ वसन्ततिलका (छन्दोऽनुशासने अ.२ सू.२३१) 6. तो जौ गाविन्द्रवज्रा (छन्दो-२-१५४) 7. इहापारसंसारेति प्र. । 8. श्रोतारः । 9. उक्तप्रयोजनं । 10. चान्द्रमतेन णिजन्तात्कर्त्तर्यात्मनेपदभावान्न परस्मैपदित्वादसाधुः प्रयोगोऽयमिति शक्यम् । स्वपरसमयसूचनार्थत्वात्सूत्र-कृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, स्वकृत्यपेक्षया नियुक्तिं कीर्तयिष्य इति प्रयोजनोक्तिः ॥ 11. सम समुत्तरणमार्गः प्र.।
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy