________________
૨૬
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર दशमोऽध्यायः
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ बन्धहेत्वभावनिर्जराभ्याम् ॥२॥
कृत्स्नकर्मक्षयो मोक्षः ॥३॥
औपशमिकादिभव्यत्वाभावाच्चान्यत्र
केवलसम्यक्त्वज्ञान - दर्शनसिद्धत्वेभ्यः ॥४॥
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥
पूर्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च तद्गतिः ॥६॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहना
न्तरसङ्ख्याल्पबहुत्वतः साध्याः ॥७॥