________________
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
परतः परतः पूर्वापूर्वाऽनन्तरा ॥४२॥ नारकाणां च द्वितीयादिषु ॥४३॥ दशवर्षसहस्राणि प्रथमायाम् ॥४४॥ भवनेषु च ॥४५॥ व्यन्तराणां च ॥४६॥ परा पल्योपमम् ॥४७॥ ज्योतिष्काणामधिकम् ॥४८॥ ग्रहाणामेकम् ॥४९॥ नक्षत्राणामर्धम् ॥५०॥ तारकाणां चतुर्भागः ॥५१॥ जघन्या त्वष्टभागः ॥५२॥ चतुर्भागः शेषाणाम् ॥५३॥
पञ्चमोऽध्यायः
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥ द्रव्याणि जीवाश्च ॥२॥ नित्यावस्थितान्यरूपाणि ॥३॥ रूपिणः पुद्गलाः ॥४॥ आकाशादेकद्रव्याणि ॥५॥ निष्क्रियाणि च ॥६॥ असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥७॥ जीवस्य ॥८॥ आकाशस्यानन्ताः ॥९॥