________________
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર चतुर्थोऽध्यायः
देवाश्चतुर्निकायाः ॥१॥ तृतीयः पीतलेश्यः ॥२॥ दशाष्टपञ्चचद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभि योग्यकिल्बिषिकाश्चैकशः ॥४॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ पूर्वयोर्दीन्द्राः ॥६॥ पीतान्तलेश्याः ॥७॥ कायप्रवीचारा आ-ऐशानात् ॥८॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः ॥९॥ परेऽप्रवीचाराः ॥१०॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥११॥ व्यन्तराः किन्नरकिंपुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः ॥१२॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ॥१३॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१४॥ तत्कृतः कालविभागः ॥१५॥ बहिरवस्थिताः ॥१६॥ वैमानिकाः ॥१७॥ कल्पोपपन्नाः कल्पातीताश्च ॥१८॥ उपर्युपरि ॥१९॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्त्रारेष्वा