________________
३२००
भारद्वाजस्मृतिः खरेण कुक्कुटेनैव स्पृष्टः कर्मरिपुः कुशः। कपिनाकृकलाशेन पतितेनांधजातिना ॥३॥ भिषजा रोगिणा स्पृष्टः कुशः कर्मस्वशोभनः । देवलेन च चंडेन व्रात्येन ज्ञानहानिना ॥३६॥ वर्यः पातकिना स्पृष्टः कुशोऽनुष्ठेयकर्मसु । रक्तश्लेष्मादिभिः स्पृष्टः क्रियायुस्तः पुराग्रतः ॥३७॥ उच्छिष्टजनसंस्पृष्टः कुशः कर्मविनाशकः। सूतिकात्रयकावेश्य ज्ञातपूर्वाभिसारिका ॥३८॥ अन्याः सदोषायारताभिः कुशःरपृष्ठः क्रियारिपुः । दोषैरेवंविधैरन्यैर विस्पृष्टः प्रमादतः॥३६॥ कुशः कर्मस्वयोम्यः स्यादाघातः पशुभिः स्मृतः । पिंडकर्मणि ये युक्ताः कुशा ये पितृतर्पणे ॥४॥ उच्छिष्टेऽपि च ये युक्ताः ते योग्या न हि कर्मसु । दोषानष्टान्कुशो त्यक्त्वान् कुशक्त्वीक्तैर्गुणैर्बुधः ||४|| शृतिस्मृत्युक्त कर्माणि वारयेत्कर्मसिद्धये। कुशालाभेश्ववालोवा विश्वामित्रोऽभिवारिजः ॥४२॥ दूर्वा चैतेषु यो लब्धः तेन कर्म समाचरेत् । . अत्रोक्त कुशमुख्यानां तृणानां स्युः पृथक् पृथक् ॥४३॥ नामान्यमूनि सर्वेषां देहोबहिः कुशस्मृतः । अतःश्रेष्ठतमं कर्म अन्यश्रेष्ठोऽपि वा कुशः ॥४४॥ विश्वामित्राश्च वालौ द्वौ तथावितरौ स्मृतौ। श्वलांगूलवत्पुष्टं पुष्टमिक्षुकपाशवत् ॥४॥