________________
ऽध्यायः]
प्रायश्चित्तविधिवर्णनम्
१८६६
अथ चतुर्थपूश्ने तृतीयोऽध्यायः।
प्रायश्चित्तविधिवर्णनम् । प्रायश्चित्तानि वक्ष्यामो विख्यातानि विशेषतः। समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥१ ॐ पूर्वाभिर्व्याहृतीभिः सर्वाभिः सर्वपातकेष्वाचामेत् । यत्प्रथममाचामति तेनर्वेदं प्रीणाति यद्वितीयं तेन यजुर्वेदं यत्तृतीयं तेन सामवेदम् ।।४ यत्प्रथमं परिमार्टि तेनाथर्ववेदं यद्वितीयं तेनेतिहासपुराणम् ॥४ यत्सव्यं पाणि प्रेक्षति पादौ शिरो हृदयं नासिके चक्षुषी श्रोत्रे नाभिं चोपस्पृशति तेनौषधिवनस्पतयः सर्वाश्च देवताःप्रीणाति ॥५
.. . तस्मादाचमनादेव सर्वस्मात्पापात्प्रमुच्यते ॥६ अष्टौ वा समिध आध्यात् ॥७ . देवकृतस्यैनसोऽवयजनमसि स्वाहा ।।८ मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ॥६ पितृकृतस्यैनसोऽवयजनमसि स्वाहा ॥१० आत्मकृतस्येनसोऽवयजनमसि स्वाहा ॥११ यदिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा ॥१२ । यत्स्वपन्तश्च जाप्रतश्चैनश्चक्रम तस्यावयजनमसि स्वाहा ॥१३ यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयवजनमसि स्वाहा ।।१४