________________
१८६४
बौधायनस्मृतिः। [प्रथमोयद्यत्र हि भवेयुक्तं वद्धि तत्रैव निर्दिशेत् । भूयो भूयो गरीयः सु लघुष्वल्पीयसस्तथा (१) २ विधिना शानदृष्टेन प्राणायामान्समाचरेत् । यधुपलकृतं पापं पद्भ्यां वा यत्कृतं भवेत् ॥३ वाहुभ्यां मनसा वाचा श्रोत्रत्वग्वाणचक्षुषा ।।४ अपि वा चक्षुःोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुध्यति ॥५ शूदामलीगमनभोजनेषु केवलेषु पृथक्पृथक्सप्ताहं सप्त सप्त प्राणायामान्धारयेत् ॥६ अभक्ष्याभोज्यापेयान्नाद्यप्राशनेषु तथाऽपण्यविक्रयेषु मधुमासघृततैलक्षारलवणावरानवर्जेषु यच्चान्यदप्येवं युक्तं द्वादशाहं द्वादश द्वादश प्राणायामान्धारयेत् ।।७ पातकपतनीयोपपातकवर्जेषु यच्चान्यदप्येवं युक्तमधमासं द्वादश द्वादश प्राणायामान्धारयेत् ॥८ पातकपतनीयवर्जेषु यच्चान्यदप्येवं युक्तं द्वादश द्वादशाहान्द्वादश द्वादश प्राणायामान्धारयेत् ॥६ पातकवर्जेषु यच्चान्यदप्येवं युक्तं द्वादशार्धमासान्द्वादश द्वादश प्राणायामान्धारयेत् ॥१० अथ पातकेषु संवत्सरं द्वादश द्वादश प्राणायामान्धारयेत् ॥ दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥१२