SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ [षष्ठो १७८८ बौधायनस्मृतिः। अहतं वाससां शुचिस्त(चि त)स्माद्यकिचेज्यासंयुक्तं स्यात्सर्व तदहतर्वासोभिः कुर्यात् ॥५ प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानावृत्विजश्वपरिदधीरन् ।।६ एवं प्रक्रमादूर्वम् ।।७ दीर्घसोमेषु सत्रेषु चैवम् ॥८ यथासमाम्नातं च ॥६ यथैतदभिचरणीयेष्विष्टिपशुसोमेषु लोहितोष्णीषा लोहितवाससश्चत्विजः प्रचरेयुश्चित्रवाससश्चित्रासङ्गावृषाकपाविति च ॥१० अग्न्याधाने क्षौमाणि वासांसि तेषामलाभे कार्यासिकान्यौर्णानि वा भवन्ति ॥११ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां मृदाऽद्भिरिति प्रक्षालनम् ॥ वासोवत्तार्यवृकलानाम् ॥१३ वल्कलबत्कृष्णाजिनानाम् ॥१४ न परिहितमधिरूढमप्रक्षालितं प्रावरणम् ॥१५ नापल्यूलितं मनुष्यसंयुक्तं देवत्रा युज्यात् ॥१६ घनाया भूमेरुपघात उपलेपनम् ॥१७ सुषिरायाः कर्षणम् ॥१८ क्लिन्नाया मेध्यमाहृत्य प्रच्छादनम् ॥१६ चतुर्भिःशुध्यते भूमिर्गोभिराक्रमणात्खननादहनादभिवर्षणात्।।२० पञ्चमाञ्चोपलेपनात्षष्ठात्कालात् ।।२१ असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥२२ परोक्षोपहतानामभ्युक्षणम् ॥२३ एवं क्षुद्रसमिधाम् ।।२४ महतां काष्ठानामुपघाते प्रक्षाल्यावशोषणम् ।।२५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy