SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ औशनसस्मृतिः। [द्वितीयोत्रिः प्राश्नीयादपः पूर्व ब्राह्मणः प्रयतः स्मृतः । संवृत्ताकुष्ठमूलेन मुखं वै समुपस्पृशेत् ।।१६ अङ्गुष्ठानामिकाभ्यां तु स्पृशेनत्रद्वयं ततः । तर्जन्यवृष्ठयोगेन स्पृशेनासापुटं ततः ॥२० कनिष्ठाकुष्ठयोगेन श्रवणे समुपस्पृशेत् । सर्वासामथ योगेन हृदयन्तु तलेन वा ॥२१ संस्पृशद्वै शिरस्तद्वदष्ठेनाथवा द्वयम् । त्रिःप्राश्नीयादेवमेव प्रीतास्तेनास्य देवताः ॥२२ ब्रह्मविष्णुमहेशाश्व सम्भवन्त्यनुशुश्रुमः । गङ्गा च यमुना चैव प्रीयते परिमार्जनात् ॥२३ प्रसंस्पर्शाल्लोचनयोः प्रीयेते शशिभास्करौ। नासत्यौ चैव प्रीयेते स्पृष्टं नासापुटद्वयम् ॥२४ कर्णयोः स्पृष्टयोस्तद्वत्तीयेते चानलानिलो। संपटे हदये चास्याः प्रीयन्ते सर्वदेवताः ॥२५ मूनि संस्पर्शनादेव प्रीतस्तु पुरुषो भवेत् । नोच्छिष्टं कुर्वते मुख्यं विप्रयोगं नयन्ति याः॥२६ अन्तवदन्तसलिलजिह्वास्पर्श शुचिर्भवेत् । स्पृशन्ति बिन्दवः पादौ य आचामयतः परम् ॥२७ भूमिगैस्ते समाज्ञेयाः न तैरप्रयतो भवेत् । मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे ॥२८ फलमूलेक्षुदण्डे च न दोषो भार्गवोऽब्रवीत् । प्रचरंश्चान्नपानेषु यदुच्छिष्टो भवेद् द्विजः।।२६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy