________________
ऽध्यायः] पुत्ररहितस्य मृतस्य धनभाजने क्रम वर्णनम् । १५१५ प्राणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति, ॥६६ प्रोषितपत्नी पञ्च वर्षाण्युपासीतोवं पञ्चभ्यो वर्षेभ्यो भर्तृसकाशं गच्छेत् ॥६७ यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्तितव्यं स्यात् ॥६८ एवं ब्राह्मणी पञ्च प्रजाताऽप्रजाता चत्वारि, राजन्या प्रजाता पञ्चाप्रजाता त्रीणि, वैश्या प्रजाता चत्वार्यप्रजाता द्वे, शूद्रा प्रजाता त्रीण्यप्रजातकम् ।।६६ अत ऊचं समानोदकपिण्डजन्मर्षिगोत्राणां पूर्वः पूर्वो गरीयात् ॥७० न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ।।७१ यस्य पूर्वेषां षण्णां न कश्चिदायादः स्यात्सपिण्डाः पुत्र-. स्थानीया वा तस्य धनं विभजेरन् ।।७२ तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ।।७३ तयोरलाभे राजा हरेत् ।।७४ . . . . न तु ब्राह्मस्य राजा हरेत् ।।७५ ब्रह्मस्वं तु विषं घोरम् ॥७६ न विषं विषमित्याहु ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्, इति ॥७७
विद्यसाधुभ्यः संप्रयच्छेत्संप्रयच्छेदिति ॥७८ . . ... इति वासिष्ष्ठे धर्मशास्त्रे सप्तदशोऽध्यायः।।