________________
१३०२
याज्ञवल्क्यस्मृतिः ।
अभक्ष्येण द्विजं दूष्यन् दण्ड्य उत्तमसाहसम् । क्षत्त्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्द्ध किम् ॥२६६ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥३०० चतुष्पादकृते दोषो नापेहीति प्रजल्पतः । काष्ठलाष्ट्र षुपाषाणवाहुयुग्य कृनस्तथा ॥ ३०१ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पचाचैवापसरता हिंसने स्वाम्यदोषभाक् ॥ ३०२ शक्तो मोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विष्टे द्विगुणं ततः ॥ ३०३ जारं (चोर) चौरेत्यभिवदन् दाप्यः पश्वशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥३०४ राज्ञो ऽनिष्टप्रवक्तारं तत्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं जिह्वां छित्त्वा प्रवासयेत् ॥ ३०५
[ द्वितीयो
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राज (शय्या) यानासनारोढ़ईण्ड उत्तम (मध्यम) साहसः || ३०६ द्विनेत्रभेदिनो राजद्विष्टा देशकृतस्तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽशतो दमः ||३०७
दुर्दस्तु पुनर्दृष्ट्रा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ||३०८ यो मन्येताजितोऽस्मीति न्यायेन पि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥३०६