SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ वैष्णवदीक्षाविधिवर्णनम् । प्रवः पान्तमिति सूक्रेन नाममूर्ति समर्चयेत् । गवाज्यं प्रत्यवं हुत्वा नाम दद्याच्च वैष्णवः ॥ २३६ अभिप्रियाणीति सूकेनोपस्थाय जनार्दनम् । प्रदक्षिण नमस्कारौ कृत्वा शेषं समाचरेत् ॥ २३७ मन्त्रदीक्षा विधानन्तु श्रौतं मुनिभिरीरितम् । नवाहिता भवेद्दीक्षा न पृथक्त्वेन वक्ष्यते ||२३८ अदीक्षितो भवेद्यस्तु मन्त्रं वैष्णवमुत्तमम् । अनं वाऽपि कुरुते न संसिद्धिमवाप्नुयात् ॥ २३६ नादीक्षितः प्रकुर्वीत विष्णोराराधनक्रियाम् । श्रौतं वा यदि वा स्मात्तं दिव्यागममथापि वा ॥ २४० तस्मादुक्तप्रकारेण दीक्षितो हरिमर्धयेत् । पूर्वेन्ह थपोष्य गुरुगा नयां स्नात्वा कृतक्रियः ॥२४१ आचार्यः पूजयेष्णुं गन्धपुष्पाक्षतादिभिः । ईशान्यादि चतुर्दिक्षु संस्थाप्य कलशान् शुभान् ॥२४२ तेषु गत्र्यानि निक्षिप्य चतुर्मुर्तीन् समर्चयेत् । वाराहं नारसिंहश्च वामनं कृष्णमेव च ॥ २४३ द्विगोरिति च द्वाभ्यां वाराहं पूजयेत्ततः । प्रतद्विष्णु इति ऋचा नारसिंहमनामयम् ॥२४४ न ते विगो रित्यनेन वामनं पूजयेत्तथा । वषट्तेविष्णत्र इति कृष्णं संपूजयेत् द्विजः ॥ २४५ संपूज्याऽऽवरणं सर्वं गन्धपुष्पैर्विधानतः । प्रतिष्ठाप्य ततो वह्निमिध्माधानान्तमाचरेत् । चतुभिवैष्णवैः सूक्तैः पायसं मधुमिश्रितम् ॥ २४६ ऽध्यायः ] १२२३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy