________________
शासातपरमृतिः।
[द्वितीयोमहिषीघातने चैव कृष्णगुल्मः प्रजायते । खरे विनिहते चैव खररोमा प्रजायते ।।४८ निष्कत्रयस्य प्रकृति सम्प्रदद्याद्धिरण्मयीम् । तरक्षौ निहते चैव जायते केकरेक्षण। दद्याद्रत्नमयीं धेनु स तत्पातकशान्तये ॥४६ शूकरे निहते चैव दन्तुरो जायते नरः । स दद्यात्तु विशुद्धयर्थ घृतकुम्भ सदक्षिणम् ।।५० हरिणे निहते खञ्जः शृगाले तु विपादकः । अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्मितः ।।५१ अजाभिघातने चैव अधिकाङ्गः प्रजायते । अजा तेन प्रदातव्या विचित्रवस्त्रसंयुता ॥५२ उरभ्र निहते चैव पाण्डुरोगः प्रजायते । कस्तूरिकापलं दद्याद्ब्राह्मणाय विशुद्धये ॥५३ मार्जारे निहते चैव पीतपाणिः प्रजायते। पारावतं स सौवर्ण प्रदद्यानिष्कमात्रकम् ॥५४ शुकशारिकयोर्घाते नरः स्खलितवाग्भवेत् । सच्छास्त्रपुस्तकं दद्यात् स विप्राय सदक्षिणम् ॥५५ वकघाती दीर्घनसो दद्याद्गां धवलप्रभास् । काकघाती कर्णहीनो दद्याद्गामसितप्रभाम् ॥५६ हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता। तदर्डाद्ध प्रमाणेन क्षत्रिवादिष्वनुमात् ।।५७ इति शातासपीये कर्मविपाक हिंसाप्रायश्वित्तविधिनाम .
द्वितीकोन्यायः।