SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ आङ्गिरसस्मृतिः। दशाहाच्छुध्यते विप्रो द्वादशाहेन भूमिपः । पाक्षिकं वैश्य एवाह शूद्रोमासेन शुष्यति ॥५१.. अग्निहोत्री च यो विप्रः शूद्रानं चैव भोजयेत् । पञ्च तस्य प्रणश्यन्ति आत्मा वेदानयोऽग्नयः ।।५२ शूद्रान्नेन तु भुक्तेन यो द्विजो जनयेत्सुतान् । यस्यानं तस्य ते पुत्रा अन्नाच्छुक्र प्रवर्तते ॥५३ शूद्रेण स्पृष्टमुच्छिष्टं प्रमादादथ पाणिना। तद्विजेभ्यो न दातव्यमापस्तम्बोऽब्रवीन्मुनिः ॥५४ ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य च पर्वसु । वैश्येष्वापत्सु भुञ्जीत न शूद्रेऽपि कदाचन ।।५५ ब्राह्मणान्ने दरिद्रत्वं क्षत्रियान्ने पशुस्तथा । वैश्यान्नेन तु शूद्रत्वं शूद्राने नरकं ध्रुवम् ॥५६ अमृतं ब्राह्मणस्यान क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चानमेवान शूद्रान्न रुधिरं ध्रुवम् ॥५७ दुष्कृतं हि मनुष्याणामनमाश्नित्य तिष्ठति । यो यस्यानं समश्नाति स तस्याश्नाति किल्विषम् ॥५८ सूतकेषु यदा विप्रो ब्रह्मचारी जितेन्द्रियः । पिवेत् पानीयमज्ञानाद्भुङ्क्ते (अन्न) भक्तमथापिवा ।।५६ उत्ताऱ्याचम्य उदकमवतीयं उपस्पृशेत् । एवं हि समुदाचारो वरुणेनाभिमन्त्रितः ॥६० अग्न्यागारे गवां गोष्ठे देवब्राह्मण सन्निधौ । आहारे जपकाले च पादुकानां विसर्जनम् ॥६१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy