________________
४३८
विष्णुरमृतिः ।
॥ अथ एकोनविंशोऽध्यायः ॥ मृतं द्विजं न शूद्रेण निर्हारयेत् । न शूद्वंद्विजेन । पितरं मातरञ्च पुत्रानिह रेयुः। न द्विजं पितरमपि शूद्राः ब्राह्मणमनाथं ये ब्राह्मणा
निहरन्ति ते स्वर्गलोकभाजः। निहत्य च बान्धवं प्रेतं सत्कृत्याप्रदक्षिणेन चितामभि
___गम्याप्सु सवाससो निमज्जनं कुयुः । प्रेतस्योदकनिर्बपणं कृत्वैकपिण्डं कुशेषु दधुः। परिवर्तितवाससश्च निम्वपत्राणि विदश्य द्वाय॑श्मनि
पदन्यासं कृत्वा गृहं प्रविशेयुः । अक्षतांश्चाग्नौ क्षिपेयुः चतुर्थे दिवसेऽस्थिसञ्चयं कुर्युः। तेषाञ्च गङ्गाम्भसि प्रक्षेपः। यावत् सङ्घयमखि पुरुषस्य गङ्गाम्भसि तिष्ठति
तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति । यावदाशौचं तावत् प्रेतस्योदकं पिण्डमेकञ्च दधुः। क्रीतलब्धाशनाश्च भवेयुः। अमांसाशनाश्च । स्थण्डिलशायिनश्च । पृथक् शायिनश्च । प्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकम्र्माणस्तिलकल्कैःसर्वपकल्का स्नाता: परिवर्तितवाससो गृहं प्रविशेयुः । ता शान्ति कृत्वा ब्राह्मणानाञ्च पूजनं कुर्युः । देवाः परोक्षदेवाः प्रत्यक्षदेवा ब्राह्मणाः । ब्राह्मणैर्लोका धार्यन्ते।