________________
विष्णुस्मृतिः।
॥ अथ अष्टादशोऽध्यायः॥ ब्राह्मणस्य चतुर्पु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकमृक्थं दशधा
विभजेयुः तत्र ब्राह्मणीपुत्रश्चतुरोंऽशानादद्यात् । क्षत्रियापुत्रस्त्रीन् । द्वावंशौ वैश्यापुत्रः। शूद्रापुत्रस्त्वेकं अथ चच्छूद्रापुत्रवज ब्राह्मणस्य पुत्रत्रयं
भवेत्तदा तद्धनं नवधा विभजयुः वर्णानुक्रमेण चतुस्लिद्विभागकृतानंशानादयः । वैश्यवर्ज़ मष्टधाकृतं चतुरस्त्रीनेकञ्चाद्यः । क्षत्रियवर्जसप्तधाकृतं चतुरो द्वावेकञ्च । ब्राह्मणवज षड्धाकृतं त्रीन् द्वावेकञ्च । क्षत्रियस्य क्षत्रियावैश्याशूद्रापुढेष्वयमेव विभागः । अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां तदा सप्तधा
कृताद्धनाद् ब्राह्मणश्चतुरोंऽशानादद्यात्रीन् राजन्यः । अथ ब्राह्मणस्य ब्राह्मणवैश्यौ तदा षड्धाविभक्तस्य
चतुरोंऽशान् ब्राह्मण आदद्यावावंशौवैश्यः । अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनंपञ्चधा विभजेयातां चतुरोंऽशान् ब्राह्मणस्त्वादद्यादेकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैयौ स्यातां तदा तद्धनंपञ्चधा विभजेयातां त्रीनंशान क्षत्रियस्त्वादद्यावावंशौ वैश्यः अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय शूद्रौ पुत्रौ स्यातां तदातद्धनं चतुर्दा विभजेयातां त्रीनंशान क्षत्रियस्त्वादद्यादेकं शूद्रः अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्याता