________________
प्रायश्चित्तवर्णनम्। समुत्पन्ने यदा स्नामे भुब्बते वाऽपि पिवेद्यदि । गायत्र्यष्टसहस्रं तु जपेत् स्नात्वा समाहितः ।।३१३ अङ्गुल्या दन्तकाष्ठं च प्रत्यक्ष लवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥३१४ दिवा कपित्वच्छायायां रात्रौ दधि शमीषु च । कासिं दन्तकाष्ठं च विष्णोरपि हरेच्छ्यिम् ।।३१५ शूर्पवातनखाग्राम्बुस्नानं वनपदोदकं । मार्जनीरेणुकेशाम्बु हन्ति पुण्यं दिवाकृतम् ॥३१६ मार्जनीरजकेशाम्बु देवतायतनोद्भवम् । तेनावगुण्ठितं तेषु गङ्गाम्भःप्लुत एव सः॥३१७ मृत्तिकाः सप्त न पाह्या वल्मीके मूषिकस्थले । अन्तर्जले श्मशानान्ते वृक्षमूले सुरालये ॥३१८ वृषभैश्च तथोत्खाते श्रेयष्कामैः सदा बुधैः ॥३१६ शुचौ. देशे तु संग्राह्या शर्कराश्मविवर्जिता ॥३२० पुरीषे मैथुने होमे प्रस्रावे दन्तधावने । स्नानभोजनजप्येषु सदा मौनं समाचरेत् ।।३२१ यस्तु संवत्सरं पूर्ण भुक्ते मौनेन सर्वदा । युगकोटिसहस्रेषु स्वर्गलोके महीयते ॥३२२ स्नानं दानं जपं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ।।३२३ सर्वस्वमपि यो दद्यात् पातयित्वा द्विजोत्तम् । नाशयित्वा तु तत्सर्व भ्रूणहत्याफलं लभेत् ॥३२४