________________
कलामृत्सत्कीर्ति र्यतिततियतिः शान्तप्रकृतिः कलापूर्णः सूरिः सृजतु सततं शर्म जगति ॥ ९ ॥ शिखरिणी
.
कारं कारं जिनवरवचो - वाचनावर्षणं वै हारं हारं नरहृदयतमोविह्निचालं करालम् । धारं धारं भयि सुविपुलं चातकार्भे प्रमोद - माधोय्यां संप्रति विजयते श्रीकलापूर्णमेघः ॥ १० ॥ मंदाक्रान्ता
अध्यात्म-कासार-विलास - हंस ! सहस्रभानो भविपद्मबोधे ।। सद्बोधिवृक्षे जलदोपम ! त्वं जीयात्कलापूर्ण ! मुनीन्द्र ! लोके ॥ ११ ॥ उपजाति
सर्वत्र सज्ज्ञानमयीं सुवर्षाम् कुर्वस्तथा चातकबालके ऽपि रे मादृशे पातय शब्दबिन्दून् द्वित्रान् कलापूर्ण पयोद ! तूर्णम् ॥ १२ ॥ उपजाति
मनोमयूरो भवतोऽभ्रतो. मे . संप्राप्य वाणीप्रियवर्षणं हि । हर्षातिरेकात्प्रकरोति नृत्यं श्रीमन् कलापूर्ण मुनीन्द्र ! नित्यम् ॥ १३ ॥ उपजाति
निबिडतिमिरजालच्छेदनेनैव सद्यः प्रकटितशिवमार्गः शोषयन् कर्मपङ्कम् । दधदतनुकहर्षः प्राणिपद्मौघबोधे जयति जगति सूर्यः श्रीकलापूर्णसूरिः ॥ १४ ॥
..
जनकुमुदसमूहं बोधयन् संप्रपूर्णः । सकलकलकलाभि - निर्मलः सद्यशोभृत् ।। विशदनिजकगोभिस्त्वर्पयश्चित्तशान्तिम्
जयति जगति चन्द्रः श्रीकलापूर्णसूरिः ॥ १५ ॥ मालिनी (कहे कलापूर्णसूरि - १ ****************************** ५९९)