________________
कर्मरिपु - निहन्तारम् लावण्ययुतमुत्तमम् । पूर्ण सद्गुणौघेः प्र - णमामीमं मुनीश्वरम् ॥ ३ ॥
मोहादेमुक्तबुद्धि विमलगुणनिधि जैतृकन्दर्पजेता सद्भक्त्या नित्यमर्हद्भजनरतमति - धर्मलाभप्रदाता । शान्तात्मा चन्द्रतुल्यः शशिसदृशयशाः संप्रपूर्णो गुणैश्चा - यं सूरीन्द्रः प्रपूज्यो जगति विजयते भूषणः शासनस्य ॥ ४ ॥ स्रग्धरा
कुठारायमाणं कषाय-द्रु-भेदे दिनेन्द्रायमाणं जनाम्भोजबोधे । मरालायमानं प्रभोः पत्पयोजे । कलापूर्णसूरि प्रणौमि प्रगेऽहम् ॥ ५ ॥ भुजङ्गप्रयातम्
विततसंसृति-कानन-पर्यट - न्मुनि-विधुं भयतः परपीडितम् । शिवपुरी रहितां सकलै भयै - नय कलादिमपूर्ण ! सुसार्थप ! ॥ ६ ॥
अहह ! जीव भवाटनतो यदि श्रममवाप्य शिवं च समीहसे । श्रय ततो लघु संसृति-सूदनं किल कलादिमपूर्ण पदद्वयम् ॥ ७ ॥ द्रुतविलम्बितम्
मोहोन्मादनिशा-विलुप्त-निजकात्मज्ञान-तेजोभरा - नात्मीयैः खरगोभिराशु नृचयानुच्चैः प्रबोधय्य च । निर्वाणा-ध्व-निदर्शकं हतभयं ज्ञानप्रकाशं नय - नाधोय्यामधुना रविः किल कलापूर्णः प्रविभ्राजते ॥ ८ ॥ शार्दूल०
प्रभोर्गीतिप्रीति गजगतिगतिः संयमरतिः . शशिज्योतिर्दीप्ति नतजनतति निर्मलमतिः
५९८
******************************
कहे