________________
.
अहह ! जीव भवाटनतो यदि श्रममवाप्य शिवं च समीहसे । श्रय ततो लघु संसृति-सूदनं किल कलादिमपूर्ण - पदद्वयम् ॥ ७ ॥ द्रुतविलम्बितम्
मोहोन्मादनिशा-विलुप्त-निजकात्मज्ञान-तेजोभरा - नात्मीयैः खरगोभिराशु नृचयानुच्चैः प्रबोधय्य च । निर्वाणा-ध्व-निदर्शकं हतभयं ज्ञानप्रकाशं नय - नाधोय्यामधुना रविः किल कलापूर्णः प्रविभ्राजते ॥ ८ ॥ शार्दूल०
प्रभोर्गीतिप्रीति र्गजगतिगतिः संयमरतिः शशिज्योतिर्दीप्ति नतजनतति निर्मलमतिः कलामृत्सत्कीर्ति र्यतिततियतिः शान्तप्रकृतिः कलापूर्णः सूरिः सृजतु सततं शर्म जगति ॥ ९ ॥ शिखरिणी
.
कारं कारं जिनवरवचो - वाचनावर्षणं वै हारं हारं नरहृदयतमोविह्निजालं करालम् । धारं धारं भयि सुविपुलं चातकार्भे प्रमोद - माधोय्यां संप्रति विजयते श्रीकलापूर्णमेघः ॥ १० ॥ मंदाक्रान्ता
अध्यात्म-कासार-विलास - हंस ! सहस्रभानो भविपद्मबोधे । सद्बोधिवृक्षे जलदोपम ! त्वं जीयात्कलापूर्ण ! मुनीन्द्र ! लोके ॥ ११ ॥ उपजाति
सर्वत्र सज्ज्ञानमयीं सुवर्षाम् कुर्वस्तथा चातकबालकेऽपि रे मादृशे पातय शब्दबिन्दून् द्वित्रान् कलापूर्ण पयोद ! तूर्णम् ॥ १२ ॥ उपजाति
538
*
*
*
*
*
*
*
*
*
*
*
*
*