________________
त्रयोदश अध्याय
१४५
अन्वयः। [क्षेत्रज्ञो वक्ष्यमाणविशेषणो यस्य सः प्रभावस्य क्षेत्रज्ञस्य परिज्ञानादमृतत्वं भवति, तं ज्ञेयं यत् तत् प्रवक्ष्यामीत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् , अधुना तु तत्ज्ञानसाधनगुणममानित्वादिलक्षणं यस्मिन् सति तत् ज्ञेयविज्ञानयोगोधिकृतो भवति यत्परः संन्यासी ज्ञाननिष्ठ उच्यते, तममानित्वादिगुणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान् ।'--शङ्करः ]
अमानित्वं ( स्वगुणश्लाधाराहित्यं ) अदम्भित्वं ( दम्भराहित्यं ) अहिंसा ( परपीड़ावजनं ) क्षान्तिः ( सहिष्णत्वं ) आर्जवं ( अवक्रता ) आचार्योपासनं ( सद्गुरुसेवनं ) शौचं ( वाद्य आभ्यान्तरञ्च ) स्थैर्य ( स्थिरभावो मोक्षमार्ग एष ) आत्मविनिग्रहः ( शरीरसंयमः );-इन्द्रियार्थेषु (विषयेषु ) वैराग्यं, अनहङ्कार एव च, जन्मभृत्युजराव्याधिदुःखदोषानुदर्शनम् (जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनम् आलोचनम् );-पुत्रदारगृहादिषु असक्तिः (प्रोतित्यागः ) अनभिष्वङ्गः ( पुत्रादीनां सुखे दुःखे वा अहमेव सुखो दुःखी चेत्यध्यासातिरेकाभावः ), इष्टानिष्टोपपत्तिषु ( इष्टानिष्टयोः प्राप्तिषु ) नित्यञ्च ( सर्वदा ) समचित्तत्वं ;-मयि ( परमेश्वरे ) अनन्ययोगेन सर्वात्मदृष्ट्या ) अन्यभिचारिणी ( एकान्ता ) भक्तिः, विविक्तदेशसेवित्वं (विविक्तः शुद्वश्चित्तप्रसादकरः तं देशं सेवितु शीलं यस्य तस्य भावस्तत्वं ) जनसंसदि सभायाम् ) अरतिः (अरमणं रत्यभावः);-अध्यात्मज्ञाननित्यत्वं ( आत्मानमधिकृत्य वर्तमानं ज्ञानं तस्मिन् नित्यत्वं नित्यभावः ) तत्त्वज्ञानार्थदर्शनम् ( तत्त्वज्ञानस्य अर्थः प्रयोजनं मोक्षः तस्य दशनं मोक्षस्य सर्वोत्कृष्टत्वालोचनमित्यर्थः) । --एतत् ( अमानित्वमदम्भित्वमित्यादि विंशति संख्यकं यदुक्त तत् ) ज्ञानम् इति प्रोक्त ( वशिष्टादिभिः ), अतोऽन्यथा ( अस्मात् विपरीतं ) यत् यत् अज्ञानम् ॥८॥ ९॥ १० ॥ ११ ॥ १२ ॥
अनुबाद। आत्माश्लाधाराहित्य, अदाम्भिकता, अहिंसा, सहिष्णुता, सरलता, सद्गुरुसेवा, बाह्याभ्यन्तरशुचिता, मोक्षमार्गमें स्थिरभाव, शरीरसंयम; विषयोंके प्रति वैराग्य, अहङ्कारविहीनता, जन्ममृत्युजराव्याधिमें दुःख दोषको आलोचना; पुत्र दारा
और घरके प्रति अनासक्ति, पुत्रादिकोंके सुख दुःखमें अपने मनको सुखी दुःखी न करना, इष्ट वा अनिष्टापत्तिमें नित्य समचित्तता; हमारेमें अनन्य योग द्वारा अव्यभिचारिणी भक्ति, निर्जन स्थानमें निवास, जनसभाके प्रति विराग; अध्यात्मज्ञानपरायणता और तत्वज्ञानार्थकी ( मोक्षकी ) आलोचना;-इन विंशति संख्यकको ज्ञान कहा जाता है, इसके विपरीत जो कुछ है वह अज्ञान है ॥ ८॥ ९॥ १० ॥ ११ ॥ १२ ॥
.