________________
द्वितीयः सर्गः
११९
व्याख्या—यथाभूतः पूर्वः यथापूर्वः । यथापूर्वः न भवतीति अयथापूर्वः बन्धूनां विनाशात् पूर्ववत् परिचारकरहित इत्यर्थः । अत एव एकः - एकाकी धनं ददातीति धनदः । धनदस्य = कुबेरस्य अनुजः = कनिष्ठभ्राता इति धनदानुजः रावणः । भुज्यते यैस्ते भुजाः = बाहवश्च मूर्धान: = : = मस्तकाश्च ऊरवः = पादाश्चेति द्वन्द्वः भुजमूर्धोरु । अत्र प्राण्यंगत्वात् द्वन्द्वैकवद्भावः । तस्य बाहुल्यं = बहुत्वमाधिक्यं तस्मात् भुजमूधोंरुबाहुल्यात् कारणात् मातुः = जनन्याः राक्षस्याः इत्यर्थः । वंशः = वर्गस्तस्मिन् मातृवंशे स्थितः = वर्तमानः इव = यथा ददृशे = दृष्टः हि = निश्चयेन । अतः एकोऽपि रावणः बहुभिः राक्षसैः परिवृत इव पर्यलक्ष्यतेत्यर्थः ।
समासः—यथाभूतः पूर्वः यथापूर्वः । न यथापूर्वः इति अयथापूर्वः । भुजाश्च मूर्धानश्च ऊरवश्चेति भुजमूर्धोरु तस्य बाहुल्यं तस्मात् भुजमूर्धोरुबाहुल्यात् । धनदस्य अनुजः धनदानुजः ।
हिन्दी- भाई-बन्धुओं के मारे जाने के कारण सेवकों से रहित कुबेर का छोटा भाई एकाकी होते हुए भी रावण, अपनी भुजाओं, शिरों तथा पैरों के बाहुल्य के कारण ऐसा मालूम पड़ता था मानों अपनी मां के पक्ष में खड़ा हो। अर्थात् बीस भुजाओं, दश शिरों और चार पैरों के होने से ऐसा दीख रहा था मानों बहुत सारे राक्षसों से घिरा हुआ है । रावण की माता राक्षसजाति की थी, अतः मातृवंश कहा है ॥ ८८ ॥
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलित कैलासमरातिं बह्वमन्यत ॥ ८९ ॥
लोकपालानामिन्द्रादीनां जेतारम् । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । स्वमुखः स्वशिरोभिरचितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्त्रोत्कर्ष हेतुत्वाच्च बह्वमन्यत । साधु मक्रिमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः । बह्विति क्रियाविशेषणम् ॥
श्रन्वयः — लोकपालानां जेतारम् स्वमुखैः अर्चितेश्वरम् तुलितकैलासम् अरातिं रामः
बहु अमन्यत ।
व्याख्या – लोकान् = भुवनानि पालयन्ति = रक्षन्तीति लोकपालास्तेषां लोकपालानाम् = इन्द्रादीनां जेतारं = विजेतारम् स्त्रस्य = आत्मनः मुखानि = मस्तकानि तैः स्वमुखैः अर्चितः = पूजितः ईश्वरः = शंकरः येन स तम् अर्चितेश्वरम् । के = जले लासः = लसनमस्येति केलासः = स्फटिकः । केलासस्यायं कैलासः । तुलितः = समुत्क्षिप्तः कैलासः = शिवाद्रिः येन स तं तुलितकैलासम् । इत्थंभूतं शौर्यवीर्यसत्त्वसम्पन्नं महाबलशालिनम् अरातिं = शत्रुं रामः = राववः बहु यथा स्यात्तथा अमन्यतमानमकरोत् । गुणग्राहित्वात् स्वस्योत्कर्षकारणत्वाच्च मम पराक्रमस्यायं रावणः प्रर्याप्तो विषय इति हेतोः शौर्यधैर्यसम्पन्नं रावणं रामो बहु मन्यते स्मेत्यर्थः ।
समासः - लोकानां पाला: लोकपालास्तेषां लोकपालानाम् । स्वस्य मुखानि, स्वमुखानि तैः स्वमुखैः । अर्चितः ईश्वरः येन स तम् अर्चितेश्वरम् । तुलितः कैलासः येन स तम्, तुलित कैलासम् ।