________________
द्वादशः सर्गः
११७ तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥ रावत्रो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भावः । जेतैव जैत्रो जयनशीलः । तं जैत्रम् । जेतृशब्दात्तन्नन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः। तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः सन्नध्यास्ताधिष्ठितवान् । आसेर्लङ् ॥ अन्वयः-राघवः व्योमगंगोमिवायुभिः आधूतध्वजपटम् जैत्रं तं देवसूतभुजालम्बी सन् अध्यास्त ।
व्याख्या-राघवः =रामः व्योम्नि व्योम्नः वा गंगा, व्योमगंगायाः =मन्दाकिन्याः ऊर्मयः = तरंगाः, तेषां वायवः = पवनास्तैः व्योमगंगोमिवायुभिः आसमन्तात् धूताः = कम्पिताः ध्वजानां = पताकानां पटाः = वस्त्राणि यस्य स तम् आधूतध्वजपट मार्गवशादिति भावः। जयनशीलः जेता, जेता एव जैत्रस्तं जैत्रं ( प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः ) तं = देवेन्द्ररथम् , देवस्य = इन्द्रस्य सूतः = सारथिः, मातलिरित्यर्थः। देवसूतस्तस्य भुजः = हस्तस्तम् आलम्बते तच्छीलः, देवसूतभुजालम्बी सन् , मातलिहस्तमवलम्ब्येत्यर्थः अध्यास्त = अधिष्ठितवान् ।
समासः--व्योम्नः गंगा व्योमगंगा, व्योमगंगायाः ऊर्मयस्तेषां वायवस्तैः व्योमगंगोमिवायुभिः। आधूताः ध्वजानां पटाः यस्य स तम् आधूतध्वजपटम् । देवस्य सूतः देवसूतः । देवसूतस्य भुजः देवसूतभुजः तस्य आलम्बी, इति देवसूतभुजालम्बी।
हिन्दी—आकाशगंगा की तरंगों के पवन से फड़फड़ाती पताका ( झण्डे ) वाले, जयशील रथपर रामचन्द्रजी इन्द्र के सारथि मातलि का हाथ पकड़कर चढ गए ।। ८५ ॥
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लब्यमस्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥ मातालिरिन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म। 'पुंसि संशायां घः प्रायेण' इति घः। तं तस्य रामस्यामुमोचासञ्जयामास । तत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लेब्यं नपुंसकत्वं निरर्थकत्वं तदापुः ।।
अन्वयः-मालिः माहेन्द्र तनुच्छदम् तस्य आमुमोच, यत्र सुरद्विषाम् अस्त्राणि उत्पलदलक्लैब्यम् आपुः।
व्याख्या—मतलस्यापत्यं मातलिः = इन्द्रस्य सारथिः महेन्द्रस्य अयं माहेन्द्रस्तं माहेन्द्रम् = इन्द्रसंबन्धिनम् । तनुः = शरीरं छाद्यतेऽनेनेति तनुच्छदः तं तनुच्छदं = कवचं तस्य =रामस्य आमुमोच =आसञ्जयामास । यत्र = यस्मिन् तनुच्छदे, द्विषन्तीति द्विषः। सुराणां = देवानां द्विषः = शत्रवस्तेषां सुरद्विषां = रक्षसाम् अस्त्राणि =आयुधानि उत्पलानां = कमलानां दलानि = पत्त्राणि, इति उत्पलदलानि। उत्पलदलानां यत् क्लैब्यं = नपुंसकत्वम्, अविक्रम, व्यर्थवमित्यर्थः, तत् उत्पलदलक्लैब्यम् । “नपुंसके क्लीबं वाच्यलिंगमविक्रमे" इति रुद्रः। आपुः = प्राप्तवन्तः । कवचे धारिते सति सर्वाणि खलु राक्षसराजरावणस्य शस्त्राणि निरर्थकत्वं गतानोत्ययः।