________________
द्वादशः सर्गः
११५ प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकों रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः। यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ॥
अन्वयः-प्रियस्वप्नः भवान् वृथा भ्रात्रा अकाले बोधितः इति इव असौ रामेषुभिः दीर्घनिद्रां प्रवेशितः।
व्याख्या-प्रियः = इष्टः स्वप्नः = स्वापः, निद्रा यस्य स प्रियस्वप्नः भवान् = कुम्भकर्णः वृथा = निरर्थकं भ्रात्रा=रावणेन न कालः अकालस्तस्मिन् अकाले =असमये बोधितः = उत्थापितः, निद्राया इत्यर्थः। इति = हेतोः इव = यथा असौ = कुम्भकर्णः रामस्य =राघवस्य इषवः = बाणास्तैः रामेषुभिः दीर्घा = आयता = लम्बायमाना चासौ निद्रा=शयनमिति दीर्घनिद्रा तां दीर्घनिद्रां मृत्युमित्यर्थः प्रवेशितः = गमितः प्रापितः ।
समासः-प्रियः स्वाप्नः यस्य स प्रियस्वप्नः। न कालः अकालस्तस्मिन् अकाले। रामस्य इषवः रामेषवस्तैः रामेषुभिः । दीर्घा चासौ निद्रा, तां दीर्घनिद्राम् ।
हिन्दी-तुम को निद्रा ( नींद ) प्यारी है और व्यर्थ ही असमय में तुम्हारे भाई रावण ने जगा दिया है मानो इसी कारण कुम्भकर्ण को राम के बाणों ने लम्बी नींद में सुला दिया, अर्थात् सदा के लिये सुला दिया, मार दिया ॥ ८१ ॥
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥ इतराणि रक्षास्यपि वानरकोटिषु । समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव पेतुः । निपत्य मृतानीत्यर्थः ॥ अन्वयः-इतराणि रक्षांसि अपि वानरकोटिषु, समरोत्थानि रजांसि तच्छोणितनदीषु इव पेतुः ।
व्याख्या-तरणं तरः, ए: = कामस्य तरः इतरः। इनाः = कामेन तरन्तीति, इतराणि, इतराणि = अन्यानि रक्षांसि = राक्षसाः "इतरः पामरेऽन्यस्मिन्” इति हेमचन्द्रः । अपि = समुच्चये वानराणां = कपीनां कोट्यः = संख्याभेदास्तासु वानरकोटिषु, कोटिसंख्यकवानरसेनास्वित्यर्थः । समरे = युद्धस्थले उत्थितानि = उद्भूतानि, समरोत्थितानि रजांसि =धूलयः तेषां = राक्षसानां शोणितं = रक्तं तस्य नद्यः = सरितः । प्रवाह इत्यर्थः । तासु तच्छोणितनदीषु इव = यथा पेतुः = निपतितानि। वानरसेनासु निपत्य अन्यानि रक्षांसि मृतानीत्यर्थः।
समासः-वानराणां कोट्यस्तासु वानरकोटिषु । समरे, समरात् वा उत्थानि समरोत्थानि । तेषां शोणितं तच्छोणितं, तच्छोणितस्य नद्यस्तासु तच्छोणितनदीषु ।
हिन्दी और दूसरे राक्षस भी करोड़ों वानरों की सेना में ऐसे गिर रहे थे, मानो राक्षसों के खून की नदियों में समरभूमि से उठी हुई धुली पड़ रही हो। अर्थात् वानरी सेना ने बाकी राक्षसों को मार कर साफ कर दिया जैसे कि युद्ध स्थल से उठी धूल वहीं खून में दबकर समाप्त हो जाती है ॥ ८२ ॥