________________
११२
रघुवंशे गरुडस्तायः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण नागपाशेन बन्धनं यस्मिन्स तथोक्तः । क्षणक्लेशो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ॥
अन्वयः-गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः क्षणक्लेशः दाशरथ्योः स्वप्नवृत्त इव अभवत् । व्याख्या-गरुद्भिः = पक्षैः डयते =आकाशे गच्छतीति गरुडः। गरुडस्य = वैनतेयस्य आपातः=आगमनं तेन विश्लिष्टं = वियुक्तं पृथग्भूतमित्यर्थः । मेवनादस्य = रावणपुत्रस्य अस्त्रेण = नागपाशेन बन्धनं = उद्दानं यस्मिन् स गरुडापातविश्लिष्टमेवनादास्त्रबन्धनः । “समे तूदानबन्धने" इत्यमरः । क्षणं = किंचित्कालं क्लेशः = कष्टमिति तयोः दाशरथ्योः =रामलक्ष्मणयोः स्वप्ने = स्वप्नावस्थायां वृत्तः = भूतः इति स्वप्नवृत्त इव = यथा अभवत् = जातः । स्वप्नवत् तद्बन्धनदुःखमपि क्षणिकमेवाभूदित्यर्थः ।
समासः--मेघस्य नाद इत्र नादो यस्य स मेघनादः। मेघनादस्य अस्त्रमिति मेघनादास्त्रं तेन बन्धनमिति मेवनादास्त्रबन्धनम् , गरुडस्य आपातः गरुडापातः, गरुडापातेन विश्लिष्टं मेवनादास्त्रबन्धनं यस्मिन् स गरुडपातविश्लिष्टमेवनादास्त्र बन्धनः । क्षणं क्लेशः क्षणक्लेशः। स्वप्ने वृत्तः स्वप्नवृत्तः।
हिन्दी-गरुड़ के आजाने से अलग हो गया ( टूट गया ) है मेघनाद के अस्त्र नागपाश का बन्धन जिसमें ऐसा क्षणभर का क्लेश ( दुःख ) राम लक्ष्मण को स्वप्न के समान लगा। अर्थात् मेवनाद ने राम लक्ष्मण को नागपाश में बाँधा कि तुरन्त गरुड़ के आते ही नाग भागे, और वह क्षण भर का बन्धन उन दोनों को स्वप्न-सा लगा ॥ ७६ ॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥ ततः पौलस्त्यो रावणिः शक्त्या कासूनामकेनायुधेन । 'कासूसामर्थ्ययोः शक्तिः' इत्यमरः । लक्ष्मणं वक्षसि बिभेद विदारयामास । रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥
अन्वयः-ततः पौलस्त्यः शक्त्या लक्ष्मणं वक्षसि बिभेद, रामः तु अनाहतः अपि शुचा विदीर्णहृदयः आसीत् ।
व्याख्या-ततः = नागपाशक्षयानन्तरम् पुलस्तेः गोत्रापत्यं पौलस्त्यः = रावणिः = मेघनाद इत्यर्थः। शक्यते जेतुमनया, सा शक्तिस्तया शक्तया = कासूनामायुधेन "कासूसामर्थ्ययोः शक्तिः" इत्यमरः “स्यात्कासूः शक्तयायुधेऽपि च" इति च विश्वः । लक्ष्मणं = सौमित्रिं वक्षसि = हृदये, बिभेद = अभिनत् विदीर्णवान् इत्यर्थः । रामः रामचन्द्रः तु न आहतः अनाहतः = अताडितः अपि शुचा = शोकेन विदीर्ण = भिन्नं हृदयं = चित्तं यस्य स विदीर्णहृदयः अभवत् = जातः । अनुजदुःखेन दुःखितोऽभूदित्यर्थः।
समासः-न आहतः अनाहतः । विदीर्ण हृदयं यस्य स विदीर्णहृदयः ।