________________
द्वादशः सर्गः
१०७ अन्वयः–केवलं भुवः पृष्ठे न “किन्तु" व्योम्नि च संबाधवर्तिभिः हरिसैन्यैः अनुद्रुतः सन् सः अरिनाशाय प्रतस्थे । ___ व्याख्या केवलम् = एकं भुवः पृथिव्याः पृष्ठे= स्थले धरणीतले न किन्तु व्योम्नि = आकाशेऽपि सम्यक् बाधा यत्र स संबाधः। सम्बाधेन = संकीर्णेन वर्तन्ते इति सम्बाधवर्तिनस्तैः सम्बाधवर्तिभिः । सम्बाधं यथा स्यात्तथा वर्तन्ते = गच्छन्ति, इति वा। हरीणां = वानराणां सैन्यानि = सैनिकारतैः हरिसैन्यैः । हरयः एव सैन्या इति हरिसैन्यास्तैर्वा । अनुद्रुतः = अनुधावितः युक्त इत्यर्थः सन् रामः = राधवः अरीणां = शत्रूणां रक्षसां नाशः == विनाशः = मारणमित्यर्थः तस्मै अरिनाशाय प्रतस्थे = प्रस्थानं कृतवान् ।
समासः–अरीणां नाशः अरिनाशस्तस्मै अरिनाशाय । सम्बाधेन वर्तिनस्तैः सम्बाधवर्तिभिः।
हिन्दी-जमीन में ही नहीं किन्तु आकाश में भी भीड़ के कारण बड़ी कठिनता से चलने वाली वानरो सेना से युक्त (लैस) होकर रामचन्द्र जी शत्रु का विनाश करने चल पड़े ॥६७॥
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६८ ॥ उदधेः कूले निविष्टं तं रामम् । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः । राक्षसलक्ष्म्या स्नेहाद् बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव । प्रपेदे प्राप्तः ॥
अन्वयः-उदधेः कूले निविष्टं तं विभीषणः राक्षसलक्ष्म्या स्नेहात् बुद्धिम् आविश्य चोदित इव प्रपेदे। __ व्याख्या-उदकानि धीयन्तेऽत्रेति उदधिस्तस्य उदधेः = सागरस्य कूले तीरे निविष्टम् = उपविष्टं निवेशितसैन्यमित्यर्थः तं = रामं विशेषेण भीषयते शत्रूनिति विभीषणः = रावणभ्राता राक्षसानां = रावणादीनां लक्ष्मीः =राजश्रीः तया राक्षसलक्ष्म्या स्नेहात् = प्रेम्णः बुध्यते = ज्ञायतेऽनया कर्तव्यमिति सा तां बुद्धिम् मतिम् कर्तव्यताज्ञानमित्यर्थः । आविश्य = प्रविश्य = आस्थायेत्यर्थः चोदितः = नोदितः प्रेरितः इव = यथा प्रपेदे = प्राप। समुद्रतटोपविष्टस्य रामस्य शरणमागतो विभीषण इत्यर्थः।
समासः-राक्षसानां लक्ष्मीः राक्षसलक्ष्मीः तया राक्षसलक्ष्म्या । हिन्दी-समुद्र के किनारे पर पड़ाव डालकर बैठे हुए राम के पास रावण का भाई विभीषण आया। मानो राक्षसों की राजलक्ष्मी ने स्नेहवश उसकी बुद्धि में प्रविष्ट होकर प्रेरित किया हो । अर्थात् राम की शरण में जाने से ही कल्याण है यह समझा दिया गया हो ॥६८॥
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ ६९ ॥ राघवस्तस्मै विभीषणाय । 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' इति संप्रदानत्वाच्चतुर्थी । निशाचरैश्वर्य राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि । कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बध्नन्ति गृह्णन्ति खलु । जनयन्तीत्यर्थः ॥