________________
रघुवंशे
श्रन्वयः—सः रावणहृतां मैथिलीं ताभ्यां वचसा आचष्ट, आत्मनः सुमहत्कर्म व्रणैः आवेद्य संस्थितः ।
9.00
व्याख्या - सः = जटायुः रावणेन = राक्षसराजेन हृता = चोरिता इति रावणहृता तां रावणहृतां मैथिलीं = जानकीं ताभ्यां = रामलक्ष्मणाभ्यां ( चतुर्थी विभक्तिः ) वचसा = वाण्या आचष्ट = कथयामास । आत्मनः = स्वरय सुष्ठु महच्च तत्कर्म इति सुमहत्कर्म तत् प्रशंसनीयं योग्यं कार्यं युद्धरूपम् व्रणैः = ईमैं: आवेद्य निवेद्य = कथयत्वा संस्थितः =मृतः।
समासः - रावणेन हृता रावणहृता तां रावणहृताम् । सुष्ठु च महच्च तत् सुमहत् ।
हिन्दी - जटायु ने अपनी वाणी से रामलक्ष्मण को बताया कि सीताजी का अपहरण रावण ने किया और अपने युद्धरूपी अच्छ काम को अपने घावों से हो प्रकट करके मर गया ।। ५५ ॥
तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः ।। ५६ ।।
व्यापत्तिर्मरणम् । नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृधे पितरीवाग्नसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त । तस्य पितृवदौर्ध्वदेहिकं चक्रतुरित्यर्थः ॥ अन्वयः - नवीभूतपितृव्यापत्तिशोकयोः तयोः तस्मिन् पितरि इव अग्निसंस्कारात् “आरभ्य” पराः क्रियाः ववृतिरे ।
=
व्याख्या - विशेषेण आ समन्तात् पद्यतेऽनयेति व्यापत्तिः । पितुः = दशरथस्य व्यापत्ति: : मृत्युः इति पितृव्यापत्तिः । तस्याः शोकः = शुक्, इति पितृव्यापत्तिशोकः । न नवः अनवः, अनवः नवः संपद्यमानः इति नवीभूतः । नवीभूतः = नूतनः संपद्यमानः पितृव्यापत्तिशोकः ययोस्तौ नत्रीभूतपितृव्यापत्तिशोकौ तयोः नवीभूतपितृव्यापत्तिशोकयोः तयोः = रामलक्ष्मणयोः तस्मिन् = जटायुषि गृध्रे पिर्तार = जनके दशरथे इव = यथा अग्नौ = वह्नौ संस्कारः = शवदाहः, तस्मात् अग्निसंस्कारात् आरभ्य पराः = उत्तराः क्रियाः = और्ध्वदेहिककर्माणि ववृतिरे = अवर्तन्त । स्वपितृतुल्यमेव जटायुष और्ध्वदेहिकं कृतवन्तौ, इत्यर्थः ।
समासः - पितुर्व्यापत्तिः पितृव्यापत्तिः, तस्याः शोकः पितृव्यापत्तिशोकः । नवीभूतः पितृव्यापत्तिशोकः ययोस्तौ तथोक्तौ : तयोः नवीभूतपितृव्यापत्तिशोकयोः । अग्नौ संस्कारः इति अग्निसंस्कारः, तस्मात् अग्निसंस्कारात् ।
हिन्दी - “ अपने पिता के मित्र गृध्रराज के मरने पर " फिर से नया हो गया है पिताजी की मृत्यु का शोक जिन को, ऐसे राम-लक्ष्मण ने जटायु को शवदाह से लेकर सारी क्रियाएँ श्राद्धादि अपने पिता के समान कर दी थीं। अर्थात् जिस प्रकार विधि - पूर्वक अपने पिताजी का श्राद्धादि किया था उसी प्रकार पितृतुल्य जटायु का भी किया ॥ ५६ ॥
वनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ ।। ५७ ।।