________________
रघुवंशे
___ ससैन्यो भरतो राममन्वगाच्च । किं कुर्वन् । आश्रमालयैर्वनवासिभिर्दर्शितानेते रामनिवासा इति कथितान् ससौमित्रेलक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान् पश्यन्नुदश्रू रुदन् ।
अन्वयः-ससैन्यः “भरत" आश्रमालयः दर्शितान् , ससौमित्रेः तस्य वसतिद्रुमान् , पश्यन् उदश्रुः सन् , रामम् अन्वगात् ।।
व्याख्या--सेनायां भवाः सैन्याः । सैन्यैः = सैनिकैः सहितः = युतः ससैन्यः भरतः, आश्राम्यन्त्यत्र, अनेन वा आश्रमः, आ समन्तात् श्रमोऽत्र स्वधर्मसाधनक्लेशात्, इति वा आश्रमः । “आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे" इति मेदिनी। आश्रमः = वनम् एव आलयः = गृहं येषां ते आश्रमालयास्तैः आश्रमालयैः = अरण्यवासिभिः दर्शितान् = निर्दिष्टान्, एते श्रीरामनिवासाः इति कथितान् , सुमित्रायाः अपत्यं सौमित्रिः सौमित्रिणा लक्ष्मणेन सहितः ससौमित्रिः तस्य ससौमित्रः तस्य = रामस्य वसन्त्यस्यां सा वसतिः = निवासस्थानं तस्याः द्रुमाः = वृक्षास्तान् वसतिद्रुमान् पश्यन् = अवलोकयन् उद्गतानि अश्रूणि = नेत्रजलानि यस्य स उदश्रुः = रुदन् सन् राम = रामचन्द्रम् अन्वगात् = पश्चादगच्छत् । स्वज्येष्ठभ्रातरं श्रीराममानेतुं तत्पृष्ठतो गतवानित्यर्थः ।
समासः- सैन्यैः सहितः ससैन्यः । आश्रम एव आलयः येषान्ते तैः आश्रमालयैः। सौमित्रिणा सहितः ससौमित्रिरतस्य ससौमित्रः । उद्गतानि अश्रूणि यस्य सः उदश्रुः। वसतेः द्रुमाः वसतिद्रुमास्तान् वसतिद्रुमान् ।
हिन्दी-सेना के साथ भरतजी, आश्रमों में रहने वाले वनवासियों से दिखाये हुये, रामलक्ष्मण के निवास के वृक्षों को देखते हुये, आँखों में जल भरे हुए ( भरत ) भगवान् राम के पीछे गये । अर्थात् राम का बनगमन सुनकर भरतजी उन्हें लौटाने को चल पड़े । मार्ग में बनवासियों ने बताया कि इन वृक्षों के नीचे राम ने विश्राम किया था तो उस स्थान को देखकर भरतजी के आँसू बहने लगते थे ॥ १४ ॥
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥ १५॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः। कथितपितृमरणः सन्नित्यर्थः । अनुच्छिष्टाननुभूतशिष्टा संपद्गुणोत्कर्षों यस्याः सा । 'संपद्भूतौ गुणोत्कर्ष' इति केशवः। तया लक्ष्म्या करणेन निमन्त्रयांचक आहूतवान् ।। __अन्वयः--चित्रकूटवनस्थं तं च गुरोः कथितस्वर्गतिः सन् अनुच्छिष्टसम्पदा लक्ष्म्या निमन्त्रयांचवे।
व्याख्या--चित्राणि = नानावर्णानि कूटानि = शृंगाणि यस्य स चित्रकूटः। चित्रकूटस्य = रामगिरेः, वनम् = अरण्यं तत्र तिष्ठतीति चित्रकूटवनस्थस्तं चित्रकूटवनस्थं तञ्च = रामं च गुरोः= पितुर्दशरथस्य स्वः= स्वर्गस्तत्र गतिः = गमनमिति स्वर्गतिः । कथिता = प्रकटिता स्वर्गतिः येन स कथितस्वर्गतिः सन् प्रकटितपितृमरण इत्यर्थः । न उच्छिष्टा, अनु