________________
७४
रघुवंशे
समास:-तस्य वियोगस्तद्वियोगस्तेन आर्तः, इति तद्वियोगातः। स्वस्य कर्म स्वकर्म, स्वकर्मणः जातस्तं स्वकर्मजम् । शरीरस्य त्यागः शरीरत्यागः, शरीरत्याग एवेति शरीरत्यागमात्रम् तेन । शुद्धेः लाभस्तं शुद्धिलाभम् ।
हिन्दी-राम के वियोग ( विछोह ) से पीड़ित हुए राजा दशरथ ने अपनी करनी से प्राप्त हुये, ( श्रवण कुमार के मारने से उसके अन्धे पिता मुनि से दिये हुए ) शाप को स्मरण करके देहत्याग से ही मेरा प्रायश्चित्त होगा, यह माना। अर्थात् पुत्र वियोग में राजा ने शरीर त्याग दिया ॥ १० ॥
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्धान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। 'आमिष भोग्यवस्तुनि' इति केशवः।।
अन्वयः--विप्रोषितकुमारम् अस्तमितेश्वरं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषाम् आमिषतां ययौ। ___व्याख्या-विशेषेण प्रोषितः = प्रवासं गतः कुमारः = युवराजः यस्मिन् तत् तथोक्तम् । अस्तं = नाशम् इतः= गतः ईश्वरः राजा यस्मिन् तत् तथोक्तम् राज्ञो भावः कर्म वा राज्यम् तस्य = दशरथस्य राज्यं = साम्राज्यं, प्रभुसत्तेत्यर्थः इति तत् तद्राज्यम् । रन्धयतीति रन्ध्रम् "रन्धं तु दूषणे च्छिद्रे" इति मेदिनी। रन्ध्रस्य - छिद्रस्य अन्वेषणं = गवेषणमिति रन्ध्रान्वेषणं तस्मिन् दक्षाः = चतुराः इति रन्ध्रान्वेषणदक्षास्तेषां रन्ध्रान्वेषणदक्षाणाम् द्विषतां = शत्रूणाम् आमिष्यते = भुज्यते, इति आमिषम् । आमिषस्य भावः आमिषता ताम् आमिषतां-मांसतां, भोग्यवस्तुतामित्यर्थः. ययौ = जगाम । “मांसं पललं क्रव्यमामिषम्" इत्यमरः। आमिषं पुनपुंसक, "भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च" इति मेदिनी।
समासः-विशेषेण प्रोषिताः कुमाराः यस्मिन् तत्तथोक्तम् । अस्तमितः ईश्वरः यस्य तत्तथोक्तम् । तस्य राज्यं तद्राज्यम् । रन्ध्रस्य अन्वेषणे दक्षास्तेषां रन्ध्रान्वेषणदक्षाणाम् ।
हिन्दी-“दशरथजी के मरने पर" जिसके राजकुमार बाहर वन में चले गये, और राजा स्वर्गवासी हो गये, ऐसा वह दशरथ का राज्य, छिद्रान्वेषी ( दोष त्रुटि देखने वाले ) शत्रुओं के भोग की वस्तु बन गया । अर्थात् मौके की ताक में बैठे शत्रु राजाओं ने आक्रमण करने को तैयारी कर दी ।। ११ ॥
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलरानाययामासुभरतं स्तम्मिताश्रुमिः ॥ १२ ॥ अथानाथाः प्रकृतयोऽमात्याः 'प्रकृतिः सहजे योनावमात्ये परमात्मनि' इति विश्वः । मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः पितृमरणगुप्त्यर्थमिति भावः। मौलराप्तैः सचिवैरानाययामासुरागमयाञ्चक्रुः ।।