________________
रघुवंशे
समासः-पौराणां कान्तः पौरकान्तस्तस्य पौरकान्तस्य । अभ्युदयस्य श्रुतिः अभ्युदयश्रुतिः । उद्यानस्य पादपाः उद्यानपादपास्तान् उद्यानपादपान् । एकम् एकं प्रति प्रत्येकम् । ___ हिन्दो-नगर के निवासियों के प्रिय श्रीराम के राज्याभिषेक के समाचार ने ( चर्चाने ) प्रत्येक ( हरएक.) नागरिक को उसी प्रकार आनन्दित प्रसन्न कर दिया, जिस प्रकार जलकी नाली ( छोटी सी नहर ) बगीचे के हरएक पौधे को आनन्दित कर देती है। अर्थात् नाली जल से सब वृक्षों को सींचकर हरा-भरा कर देती है ॥३॥
तस्याभिषेकसमारं कल्पितं ऋरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रमिः ॥ ४ ॥ क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणं शोकोष्णः पार्थिवाश्रुभिर्दूषयामास । स्वदुःखमूलन राजशोकेन प्रतिबबन्धेत्यर्थः ।।
अन्वयः--क्रूरनिश्चया कैकेयो तस्य कल्पितम् अभिषेकसम्भारं शोकोष्णैः पार्थिवाश्रुभिः दूषयामास।
व्याख्या--क्रूरः=घोरः = नृशंसः निश्चयः = निर्णयः यस्याः सा क्रूरनिश्चया "नृशंसो घातुकः क्रूरः" इत्यमरः । “समौ निर्णयनिश्चयो" इति चामरः। कैकेयो भरतमाता तस्य = रामस्य कल्पितं संभृतम् अभिषेकस्य = राजतिलकस्य सम्भारः =सामग्री उपकरणं तम् अभिषेकसम्भारं शोकेन= शुचा उष्णानि = धर्माणि तैः शोकोष्णः पार्थिवस्य = राशो दशरथस्य अणि = नेत्रजलानि तैः पार्थिवाश्रुभिः दशरथरोदनैरित्यर्थः। दूषयामास दूषितवती स्वकीयदुःखमूलकेन दशरथशोकेन प्रतिबबन्धेत्यर्थः ।
समासः-क्रूरः निश्चयो यस्याः सा फरनिश्चया। अभिषेकस्य सम्भारः अभिषेकसम्भारः तम् अभिषेकसम्भारम् । शोकेन उष्णानि तैः शोकोष्णैः । पार्थिवस्य अश्रूणि तैः पार्थिवाश्रुभिः ।
हिन्दी-कठोर भयंकर, निश्चयवाली कैकेयी ने, तैयार किये हुये रामचन्द्र जी के राज्याभिषेक ( राज्यतिलक ) के उत्सव की सामग्री को शोक से गरम गरम राजा के आंसुओं से दूषित कर दिया । अर्थात् अभिषेक के स्थानपर रोना धोना मच गया ॥ ४ ॥
सा किलाश्वासिता चण्डी मा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूबिलमग्नाविवोरगौ ॥ ५ ॥ चण्ड्यतिकोपना। 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः। सा किल भर्नाऽऽश्वासिताऽनुनीता सती तेन भर्चा संश्रुतौ प्रतिशातौ वरौ। इन्द्रेण सिक्ताभिवृष्टा भूबिले वल्मीकादौ मग्नावुरगाविव उद्ववामोजगार ॥
अन्वयः-चण्डी सा किल भर्ना आश्वासिता सती तत्संश्रुतौ वरौ इन्द्रसिक्ता भूः बिलमग्नौ उरगौ इव उद्ववाम।
व्याख्या-चण्डते या सा चण्डी =अतिकोपना सा=प्रसिद्धा कैकेयी किल= ऐतिह्ये बिमतीति भर्ता तेन भर्ना = दशरथेन आश्वासिता= अनुनीता सती तेन = भर्ना संश्रुतौ = प्रति