________________
रघुवंशे
परस्पर स्थितावन्योन्याभियुक्तौ । वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरि हीने तेजसी ययोस्तावुभौ राघवभार्गवावपि । दिनात्यये सायंकाले पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः । 'ग्रामजनबन्धुसहायेभ्यस्तल्' इति तत्प्रत्ययः । पश्यति स्मापश्यत् । अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ।
:
अन्वयः - परस्परस्थितौ वर्धमानपरि होनतेजसौ तौ उभौ अपि दिनात्यये पार्वणौ शशिदिवाकरौ इव जनता पश्यति स्म ।
I
व्याख्यः—परस्परम् = अन्योन्यम् स्थितौ = अभियुक्तौ = अभियोक्तुं संनद्धौ इत्यर्थः । वर्धते इति वर्धमानम् । परितो हीयते स्म इति परिहीनम् । वर्धमानं = वर्धिष्णु च परिहीनं = परिक्षीणं चेति वर्धमानपरिहने । वर्धमानपरिहीने तेजसी = प्रभे ययोस्तौ वर्धमानपरिहीनतेजसौ तौ = प्रसिद्धौ उभौ = द्वौ श्रीरामभार्गवावित्यर्थः । अपि दिनस्य अत्ययः = नाशस्तस्मिन् दिनात्यये = सायंकाले पर्वणि = पूर्णिमायां भवौ पार्वणौ शशी = चन्द्रः दिवाकरः सूर्यश्चेति शशिदिवाकरौ इव = यथा जनानां = लोकानां समूहः जनता = नरसमूहः पश्यति स्म = अपश्यत् । सायं पूर्णिमायां चन्द्रसूर्यसमौ रामभार्गवौ जनता ददर्शेत्यर्थः ।
समासः - परस्परं स्थितौ इति परस्परस्थितौ । वर्धमानं च परिहीनञ्चेति वर्धमानपरिहीने, वर्धमान परिहीने तेजसी ययोस्तौ वर्धमानपरिहीनतेजसौ तौ । दिनस्य अत्ययस्तस्मिन् दिनात्यये । शशी च दिवाकरश्च, शशिदिवाकरौ तौ ।
हिन्दी - आमने सामने तैयार खड़े हुये, तथा बढ रहे तेजवाले ( राम ) नष्ट तेजवाले ( परशुराम ) इन दोनों राम भार्गव को " वहाँ पर स्थित " जनता ने उसी प्रकार देखा जैसे पूर्णिमा के दिन सायंकाल में बढ़ते चन्द्र तथा ढलते हुये सूर्य हों । यहां पर श्रीराम का चन्द्रमा के साथ तथा परशुरामजी का सूर्य के साथ साम्य है ॥ ८२ ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसृनुसंनिभः ॥ ८३ ॥ हरसूनुसंनिभः स्कन्दसमः । कृपामृदू राघवः । आत्मनि विषये स्खलितवीर्यं कुण्ठितशक्ति तं भार्गवं स्वं स्वकीयं संहितममोत्रमाशुगं बाणं चावेक्ष्य । व्याजहार बभाषे ।।
अन्वयः - हरसूनुसंनिभः कृपामृदुः रात्रवः, आत्मनि स्खलितवीर्यं भार्गवं स्वं संहितम् अमोघम् आशुगं च अवेक्ष्य व्याजहार ।
व्याख्या - हरति पापं भक्तानामिति हरः । हरति नाशयति विश्वं वा प्रलये इति हरः = शिवरतस्य - सूनुः = पुत्रः कीर्तिकेयस्तेन सदृशः = तुल्यः, इति हरसूनुसंनिभः । कृपया = करुणया मृदुः = कोमलः इति कृपामृदुः राघवः = रामचन्द्रः आत्मनि = स्वस्मिन् विषये स्खलितं = कुण्ठितं = व्यर्थीभूतं वीर्य = तेजः यस्य स तं स्खलितवीर्यम् तं = परशुरामं, स्वं स्वकीयं संहितं : आरोपितम्, न मोत्र : अमोघः तम् अमोघम् = अव्यर्थमित्यर्थः । “अमोघं सफले वाच्यवत् " इति मेदिनी । आशु = शीघ्रं गच्छतीति आशुगस्तम् आशुगं : | = बाणश्च अवेक्ष्य = विलोक्य विचार्य, इत्यर्थः । व्याजहार = उक्तवान् । भार्गवं प्रति ।
-
1