________________
रघुवंशे
विद्धि चात्तबलमोजसा हरैरैश्वरं धनुरभाजि यत्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ७६ ॥ किंच। ऐश्वरं धनुर्हरेविष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि। यद्धनुस्त्वयाऽभाज्यभञ्जि । 'भजेश्च चिणि' इति विभाषया नलोपः। तथाहि नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति । ततः शिशुरपि रौद्रं धनुरभासमिति मा गर्वीरिति भावः ।।
अन्वयः-"किञ्च" ऐश्वरं धनुः हरेः ओजसा आत्तबलं विद्धि यत् त्वया अभाजि । तथाहि-नदीरयैः खातमूलं तटद्रुमं मृदुः अपि अनिलः पातयति ।
व्याख्या-ईश्वररय इदम् ऐश्वरं =शैवं धनुः=चापं हरति पापानि इति हरिस्तस्य हरेः= विष्णोः ओजसा = बलेन आत्तं = हृतं बलं = सारो यस्य तत् आत्तबलं च विद्धि =जानीहि । यत् = धनुः त्वया =रामचन्द्रेण बालेनेत्यर्थः अभाजि = भग्नम् = खण्डितमित्यर्थः। तथाहिनदीनां = तटिनीनाम् । “अथ नदी सरित् । तरंगिणी शैवलिनी तटिनी" इत्यमरः । रयाः = वेगास्तैः नदीरयैः खातम् = अवदारितं मूलं = पादः यस्य स तं खातमूलम् तटस्य = तीरस्य द्रुमः = वृक्षस्तं तटद्रुमं मृदुः = मन्दः अपि अनिलः = वायुः “मृदू चातीक्ष्णकोमलौ” इत्यमरः । पातयति = प्रभ्रंशयति । अतः बालेनापि मया शिवधनुः = अभञ्जि, इति मा गर्वोरिति भावः ।
समासः-आत्तं बलं यरय तत् आत्तबलम् । खातं मूलं यस्य स तं खातमूलम् । नदीनां रयास्तैः नदीरयैः । तटस्य द्रुमस्तं तटद्रुमम् ।
हिन्दी-और शिवजी के जिस धनुष को तुमने तोड़ा है उस धनुषके सार ( कठोरता) को तो, विष्णु की सामर्थ्य ने पहले ही हरण कर लिया है, अर्थात् खोखला कर दिया है । अतः उसे तोड़कर तुम घमण्ड न करो। क्योंकि-नदी के प्रबलवेग से जिसकी जड़ें उखाड़ दी गई हों ऐसे नदी किनारेके वृक्षको तो मन्द ( हल्का ) वायु भी गिरा देता है ॥ ७६ ॥
तन्मदीयमिदमायुधं ज्यया सङ्गमथ्य सशरं विकृष्यताम् ।
तिष्टतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ७७ ॥ तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया सङ्गमय्य संयोज्य । 'ल्यपि लघुपूर्वात्' इति रयादेशः, सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु। प्रधनं तावदास्तामित्यर्थः । 'प्रधनं मारणे रणे' इति विश्वः । एवमपि मद्धनुष्कर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन । 'तरसी बलरंहसो' इत्यमरः । त्वया जितः ।।
अन्वयः-तत् मदीयम् इदम् आयुधम् ज्यया संगमय्य सशरं “यथास्यात्तथा" विकृष्यताम् । प्रधनं तिष्ठतु एवम् अपि अहं तुल्यबाहुतरसा त्वया जितः।।
व्याख्या-तत् = तस्मात् मम इदं मदीयं = मत्सम्बन्धि इदं = पुरो दृश्यमानम् आयुध्यन्तेनेनेति आयुधम् = शस्त्रम् = कार्मुकमित्यर्थः 'आयुधं तु प्रहरणं शस्त्रमस्त्रमित्यमरः । ज्यया धनुर्गुणेन संगमय्य =संमेल्य संयोज्येति यावत् । शरेण सहितं सशरं = बाणयुक्तं यथा तथा त्वया = राघवेण विकृष्यताम् = आकृष्यताम् = सन्धीयतामित्यर्थः। प्रधनं = युद्धं तिष्ठतु = आस्ताम् । युद्धं तावदारताम् , प्रथमं भवान् मम धनु:-गुणेन मेलयित्वा बाणसहितं संतनोतु इत्यर्थः ।