________________
रघुवंशे
को न देखकर ( उपेक्षा कर ) के, परशुराम जी ने क्षत्रियकुल के प्रति क्रोधरूपी अग्निज्वाला के समान, टेढ़ी नजर उधर ही घुमाई जिधर श्रीराम थे। अर्थात् राजा को ओर ध्यान न देकर क्रोध से जलती हुई दृष्टि से राम को देखा ॥ ६९ ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥ कार्मुकनिषक्तमुष्टिना । शरमगुलीविवरचारिणं कुर्वता युयुत्सुना योद्धमिच्छता। तेन भार्गवेण का । विगतभीर्निभीकः सन् । पुरोगतोऽग्रगतो राघवो निजगद उक्तः । कर्मणि लिट् ॥
अन्वय-कार्मुकनिपक्तमुष्टिना शरम् अंगुलिविवरचारिणं कुर्वता युयुत्सुना तेन विगतभीः सन् पुरोगतः राघवः निजगदे ।
व्याख्या--कामुके = धनुषि निषक्तः =संलग्नः मुष्टिः यस्य स तेन कार्मुकनिषक्तमुष्टिना शृणाति = मारयत्यनेन इति शरस्तं शरं = बाणम् अंगुलीनां = करशाखानां दिवराणि = छिद्राणि तेषु चरति -- संचरतीति तम् अंगुलीविवरचारिणं कुर्वता = विदधता योद्धुमिच्छतीति युयुत्सति । युयुत्सतीति युयुत्सुरतेन युयुत्सुना= योद्धमिच्छुना तेन = परशुरामेण "कर्ता'—विगता= नष्टा भीः भोतिर्यस्य स विगतभीः भयरहितः सन् पुरोगतः = संमुखगतः राववः= रामचन्द्रः निजगदे उक्तः कथितः इत्यर्थः । कर्मणि प्रत्ययः ।
समासः–कार्मके निषक्तः मुष्टियन स तेन कार्मुकनिपक्तमुष्टिना विगता भीर्यस्य स विगतभीः। पुरः गतः पुरोगतः। अंगुलीनां विवराणि, अंगुलीविवराणि तेपु चारी तम् अंगुलीविवरचारिणम् ।
हिन्दी-धनुष को मुट्ठी में पकड़े हुये तथा युद्ध करने की इच्छा से अङ्गुलियों के बीच में बाण फिराते हुये परशुरामजी ने निडर सामने खड़े श्रीराम से कहा ॥ ७० ॥
क्षत्नजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमवात् ॥ ७१ ॥ क्षत्त्रजातं क्षत्त्रजातिपकारेण पितृवधरूपेण वैरि द्वेषि । तत्क्षत्त्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसों दण्डघटनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोष प्रापितोऽस्मि ॥
अन्वयः–क्षत्त्रजातं अपकारवैरि “आसीत्” तत् बहुशः निहत्य शमं गतः “अस्मि, तथापि" सुप्तसर्पः दण्डघट्टनात् इव तव विक्रमश्रवात् रोषितः अस्मि ।
व्याख्या-क्षतात् = नाशात् त्रायते क्षत्रं, क्षत्राणां = क्षत्रियाणां जातं = समूहः = जातिरित्यर्थः मे = मम भार्गवस्य अपकारेण = पितृवधरूपेण वैरि = द्वेषि शत्रुः इत्यर्थः। आसीत् । तत् = क्षत्रजातं बहून् इति बहुशः = एकविंशतिवारान् निहत्य =मारयित्वा शमं = शान्ति गतः = प्राप्तः अरिम अहं परशुरामः । तथापि सुप्तः = शयितश्चासौ सर्पः =भुजंगमः इति सप्तसपः