________________
रघुवंशे
हिन्दी-परशुराम जी दाहिने कान में पहिनी हुई, ( इक्कीस ) रुद्राक्ष के दानों की माला ( कुण्डल ) से सुशोभित हो रहे थे। मानो वह माला, क्षत्रियों का इकीस बार नाश करने की गणना करने के लिये, इक्कीस दाने की माला पहने हो ॥ ६६ ॥
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
वालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ६७ ॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवंशानां निधनाय नाशार्थम् । 'निधनं स्यात्वुले नाशे' इति विश्वः । दीक्षितम् । प्रवृत्तमित्यर्थः, तं भार्गवं स्वां दशां चावलोक्य बालाः सूनवो यस्य स पार्थिवो विषसाद । स्वस्यातिदौर्बल्याच्छत्रोश्चातिक्रोधात्कांदिशीकोऽभवदित्यर्थः ॥
अन्वयः-पितुः वधभवेन मन्युना राजवंशनिधनाय दीक्षितं तं, स्वां दशां च अवलोक्य बालसूनुः पार्थिवः विषसाद।
व्याख्या-पातीति पिता, तस्य पितुः जनकस्य जमदग्नेरित्यर्थः, वधात् = मारणात् भवतीति वधभवस्तेन वधभवेन मन्युना = क्रोधेन राज्ञां = क्षत्रियाणां वंशः = कुलं तस्य निधनं = नाशः, तस्मै राजवंशनिधनाय दीक्षा संजाता अस्यासौ दीक्षितस्तं दीक्षितं = कृतप्रतिशमित्यर्थः तं = भार्गवं = परशुराम, स्वां = निजां दशां = निर्बलतां च अवलोक्य = वीक्ष्य विचार्येत्यर्थः बालाः= शिशवः सूनवः = पुत्राः यस्य स बालसूनुः पार्थिवः= राजा दशरथः विषसाद - विषादं प्राप्तवान् । आत्मनोऽतिदुर्बलत्वात् क्षत्रियकुलनाशकपरशुरामरयातिक्रोधात् दशरथः किंकर्तव्यविमूढो जात इत्यर्थः।
तमासः--वधात् भवः वधभवस्तेन वधभवेन । राज्ञां वंशः तस्य निधनं तस्मै राजवंशनिधनाय । बालाः सूनवो यस्य स बालसूनुः ।
हिन्दी--अपने पिता के एक क्षत्रिय राजा द्वारा मारे जाने से उत्पन्न क्रोध से क्षत्रिय कल के नाश की प्रतिज्ञा करनेवाले भगवान् भार्गव को देखकर और अपनी कमजोर दशा को देखकर छोटे-छोटे बच्चों के पिता राजा विषाद, चिन्ता को प्राप्त हो गये। अर्थात् किंकर्तव्यमूढ हो गये ॥ ६७॥
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ६८ ॥ आत्मजे पुत्र दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमानं राम इति नाम । हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । अस्य दशरथस्य हृद्यं हृदयंगमं भयदायि भयंकर चाभवत् ॥
अन्वयः-आत्मजे दारुणे अहिते च तुल्यं वर्तमानं राम इति नाम हारसर्पयोः "वर्तमानं" रत्नजातम् इव अस्य हृद्यं भयदायि च अभवत् ।
व्याख्या-आत्मनः = देहात् जातः आत्मजस्तस्मिन् आत्मजे = पुत्रे दारयति चित्तमिति दारुणं तस्मिन् दारुणे = भयंकरे न हितमिति अहितं तस्मिन् अहिते = शत्रौ च तुल्यं = समानम्