________________
४४
रघुवंशे
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५९॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधर्मण्डलं यस्य सः। 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः। रविः वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव । लक्ष्यते स्म ॥
अन्वयः–तदनन्तरं बद्धभीमपरिवेषमण्डलः रविः वैनतेयशमितरय भोगिनः भोगवेष्टितः च्युतः मणिः इव लक्ष्यते स्म ।
व्याख्या-तस्य = प्रतीपपवनस्य अनन्तरं = पश्चात् व = मूतं भीमं = भयंकरं परिवेपस्य = परिधेः मण्डलं = विम्बं = परिवेशः यस्य स बद्धभीमपरिवेषमण्डलः । “मण्डलं देशबिम्बयोरिति । मण्डलं परिवेशश्चे" ति च कोपः । रूयते= स्तूयते इति रविः = सूर्यः विनतायाः अपत्यं पुमान् वैनतेयः। वैनतेयेन = गरुडेन शमितः = हतः वैनतेयशमितस्तस्य वैनतेयशमितस्य भोगः = फणः अस्यास्तीति भोगी तस्य भोगिनः सर्पस्य भोगेन= कायेन वेष्टितः = वलयितः, भोगवेष्टितः “भोगः फणकाययोः” इत्यमरः। च्युतः = मस्तकात् परिभ्रष्टः मणिः= रत्नम् इव = यथा लक्ष्यते स्म = ददृशे, तत्रत्यजनैरिति शेषः।
समासः–तस्य अनन्तरं तदनन्तरम् । परिवेषस्य मण्डलमिति परिवेषमण्डलम् । बद्धं भीम परिवेषमण्डलं यस्य स तथोक्तः । भोगेन वेष्टितः भोगवेष्टितः। वैनतेयेन शमितः वैनतेयशमितस्तस्य वैनतेयशमितस्य ।
हिन्दी-उलटी हवा चलने के पश्चात् भयंकर मण्डल ( चारों ओर के घेरे ) से धिरा सूर्य, गरुड़ से मारे हुए साँप के मस्तक से गिरे उस मणि के समान ( छोटासा ) दीखने लगा, जो साँप के शरीर के घेरे में पड़ा हो। अर्थात् सर्प के मरने पर मणि गिर पड़ा, और वह मरा हुआ साप मणि के चारों ओर मण्डलाकार पड़ा हो।
विशेषः–परिवेष परिधि को कहते हैं जो कभी-कभी सूर्यचन्द्र के चारों ओर मण्डल सा (घेरा ) बन जाता है यह उत्यात का सूचक भी होता है। और इससे सूर्यचन्द्र की कान्ति क्षीण हो जाती है । और सूर्य-चन्द्र छोटे से दीखने लगते हैं ॥ ५९ ॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरावाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ६० ॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः। सांध्यमेवा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः । रजो धूलिरासामरतीति रजरवलाः । 'रजःकृपयासुतिपरिषदो वलच्' इति वलच्प्रत्ययः। दिशः रजस्वला ऋतुमत्योऽङ्गना इव । 'रयाद्रजः पुष्पमार्तवम्' इत्यमरः । अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्रादृष्टदोषादपरत्र शास्त्रदोषादिति विज्ञेयम् । अत्र रजोवृष्टिरुत्पात उक्तः ॥