________________
एकादशः सर्गः
४१ ते चतुर्थसहितास्त्रयः चत्वार इत्यर्थः। वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः । सिद्धिमन्तः फलसिद्धियुक्तास्तरय भूपतेर्दशरथरय सामदानविधिभेदविग्रहाश्चत्वार उपाया इव वभुः। विधीयत इति विधिः । दानमेव विधिः । विग्रहो दण्डः । सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसंधेयम् ॥
अन्वयः–ते चतुर्थसहिताः त्रयः सूनवः नवविधूपरिग्रहाः सिद्धिमन्तः तस्य भूपतेः सामदानविधिभेदविग्रहाः ( चत्वारः उपायाः ) इव बभुः।
व्याख्या–ते = श्रीरामलक्ष्मणादयः चतुर्णा पूरणः= चतुर्थत्वपूरकोऽवयवः चतुर्थः । चतुथेन सहिताः=युक्ताः त्रयः, रामलक्ष्मणभरतशत्रुघ्नाः, चत्वारः, इत्यर्थः सूनवः= पुत्राः नवाः= नूतनाश्च ता वध्वः = स्त्रियः ताः परिग्रहाः= पत्न्यः येषां ते नववधूपरिग्रहाः। परिगृह्यन्ते, इति परिग्रहाः “पत्नीपरिजनादानमूलशापाः परिग्रहाः” इत्यमरः। सिद्धिः= फलसिद्धिः, अस्ति येषां ते सिद्धिमन्तः= फलनिष्पत्तिसहिताः तस्य = दशरथस्य भुवः पतिः भूपतिस्तस्य भूपतेः= राज्ञः विधीयते इति विधिः। दानं = त्यागः एव विधिः-विधानम् इति दानविधिः। “विधिर्ना नियतौ काले निधाने परमेष्ठिनि” इति मेदिनी। साम= सान्त्वप्रयोगः दानविधिः भेदः= उपजापः विग्रहः= दण्डः, एषामितरेतरयोगः सामदानविधिभेदविग्रहाः सामादिचत्वारः उपाया इव यथा बभुः = शुशुभिरे। चतुर्णां पुत्राणामुपायैः, वधूनां च सिद्धिभिः, औपम्यमित्यनुसंधेयम् ।
समासः-चतुर्थेन सहिताः चतुर्थसहिताः । नवाश्च ताः वध्वः नववध्वः । नववध्वः परिग्रहाः येषां ते नववधूपरिग्रहाः। साम च दानविधिश्च भेदश्च विग्रहश्चेत्येषां द्वन्द्वः सामदानविधिभेदविग्रहाः । भुवः पतिः भूपतिस्तस्य भूपतेः ।
हिन्दी-वे चौथे के साथ तोन अर्थात् वे चारों राजा के पुत्र नई वधूवाले होकर ऐसे सुशोभित हो रहे थे, मानो उस राजा दशरथ के फलसिद्धि से युक्त साम-दान भेद-दण्ड नामक चार उपाय हों। यहाँ चार पुत्रों का चार उपाय से और चार पत्नियों का सिद्धियों से सादृश्य है। तथा सीधे चार न कहकर "चतुर्थसहितास्त्रयः” इस प्रकार छन्द के अनुरोध से कहा गया है ॥ ५५ ॥
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥५६ ॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते च ताभिरतथा । किंच । स वराणां वधूनां च समागमः। प्रत्ययानां प्रकृतीनां च योग इव संनिभातीति संनिभः अभवत् । पचाद्यच् । प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः । यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥
अन्वयः–ताः नराधिपसुताः नृपात्मजैः कृतार्थताम् अगमन् , ते च ताभिः "कृतार्थताम् अगमन्” सः वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः अभवत् ।
व्याख्या-ताः=सीताद्याः नराणां = मनुष्याणाम् अधिपः = पालकः राजा जनकः तस्य सुताः= कन्याः, इति नराधिपसुताः नृपस्य राशो दशरथस्य आत्मनः = देहात् जाताः= उत्प