________________
३४
रघुवंशे
धनुष को उसी प्रकार सरलता से तान दिया, धनुष पर प्रत्यंचा चढ़ा दी, जिस प्रकार, कामदेव अपने कोमल पुष्पों के धनुष पर सरलतापूर्वक प्रत्यंचा ( डोरी) चढ़ा लेता है ॥४५॥
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
मार्गवाय दृढमन्यवे पुनः क्षत्त्रमुद्यतमिव न्यवेदयत् ॥ ४६ ॥ तेन रामेणातिमात्रकर्षणाद्भज्यमानमत एव वज्रपरुषस्वनम् । वज्रमिव परुषः स्वनो यस्य तत् । धनुः कर्तृ । दृढमन्यवे दृढक्रोधाय । 'मन्युः क्रोधे ऋतौ दैन्ये' इति विश्व:। भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतं न्यवेदयदिव शापयामासेव ।।
अन्वयः-तेन अति मात्रकर्षणात् भज्यमानम् “अत एव” वज्रपरुषरवनम् धनुः दृढमन्यवे भार्गवाय क्षत्रं पुनः उद्यतं न्यवेदयत् इव।
व्याख्या-तेन = रामेण मात्रा = रतोकम् = अल्पं तामतिक्रान्तमिति अतिमात्रम् । अतिमात्रम् = दृढं कर्षणम् = तरमात् अतिमात्रकर्षणात् भज्यते इति तत् भज्यमानं = त्रोट्रमानं ( न्युट्यत् ) अतएव वज्रम् = कुलिशम् इव परुषः = कठोरः स्वनः = शब्दः यस्य तत् वज्रपरुषस्वनम् धनुः = चापं दृढः = अत्यधिकः मन्युः =क्रोधः यस्य स दृढमन्युः तस्मै दृढमन्यवे = परशुरामाय "मन्युदैन्ये ऋतौ क्रुधि" इत्यमरः । क्षतात् = नाशात् त्रायते यत्तत् क्षवं क्षत्रियकुलम् पुनः = भूयः उद्यतम् = उद्गूर्णम् उज्जृम्भितमित्यर्थः न्यवेदयत् = कथितवत् इव उत्प्रेक्षायाम् ।
समास-मात्रामतिक्रान्तम् अतिमात्रम् । अतिमात्रं च तत् कर्षणं तस्मात् अतिमात्रकर्षणात् । वज्रमिव परुषः रखनः यस्य तत् वज्रपरुषत्वनम् । दृढः मन्युः यस्य स तस्मै दृढमन्यवे।
हिन्दी-रामचन्द्र जी के खूब जोर से खींचने ( झुकाने ) के कारण टूटते हुए, अतएव वज्र के समान घोर गर्जन करने वाले उस धनुष ने बड़े क्रोधी परशुरामजी से मानो निवेदन कर दिया कि क्षत्रिय कुल फिर से शिर उठाने लगा है। अर्थात् धनुष ने गर्जना क्या की, मानों भार्गव से कहा कि फिर क्षत्री प्रबल हो रहे हैं ॥ ४६ ।।
दृष्टसारमथ रुद्रकार्मुके वीर्य शुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ४७ ॥ अथ मैथिलो जनको रुद्रकामुके दृढः सारः स्थिरांशो यस्य तदृष्टसारम् । 'सारो बले स्थिरांशे च' इति विश्वः । वीर्यमेव शुल्कम् । धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षालक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ।।
अन्वयः-अथ मैथिलः रुद्रकार्मुके दृष्टसारं वीर्यशुल्कम् अभिनन्ध राघवाय अयोनिजां तनयां रूपिणीं श्रियम् इव न्यवेदयत् ।
व्याख्या-अथ = अनन्तरं चापभङ्गानन्तरमित्यर्थः । मैथिलः = राजा जनकः, रोदयतीति रुद्रः। रुद्रस्य = शिवस्य कार्मुकं = धनुः, तस्मिन् रुद्रकामुके दृष्टः = अवलोकितः सारः =