________________
रघुवंशे अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् । 'तुमर्थाच्च-' इति चतुर्थी । सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय आविर्भावाय तोयदान्मेघानिव गणान्गणशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस्प्रत्ययः । व्यादिदेश प्रजिघाय ॥
अन्वयः-अथ मैथिल: पार्श्वगान् कार्मुकाभिहरणाय सहस्रलोचनः तैजसस्य धनुषः प्रवृत्तये तोयदान् इव गणशः व्यादिदेश ।
व्याख्या-मिथिलायां भवः राजा, मैथिलः = जनकः पावें = समीपे गच्छन्ति = प्रचलन्तीति पार्श्वगास्तान् पार्श्वगान् पुरुषान् कर्मणे प्रभवतीति कार्मुकं, कार्मुकस्य = धनुषः अभिहरणं = सम्मुखानयनम् , तस्मै कार्मुकाभिहरणाय, कार्मुकमानेतुमित्यर्थः । सहस्र लोचनानि = नेत्राणि यस्य स सहस्रलोचनः = इन्द्रः, तेजसः विकारः, तैजसः तस्य = तेजोमयस्य धनुषः = इन्द्रचापस्य प्रवृत्तये = आविर्भावाय तोयानि जलानि ददतीति तोयदास्तान् तोयदान् = मेवान् इव = यथा गणान् इति गणशः = समूहान् व्यादिदेश = आदिष्टवान् , अनेकान् पुरुषान् चापमानेतुं प्रेषितवानित्यर्थः ।
समासः–कार्मुकस्य अभिहरणमिति, कार्मुकाभिहरणं तस्मै कार्मुकाभिहरणाय। सहस्रं लोचनानि यस्य स सहस्रलोचनः ।
हिन्दी-मुनि का उत्तर सुनकर, मिथिलेश जनक ने पार्श्ववता अनेक पुरुषों को धनुप ले आने का आदेश उसी प्रकार दिया, जिस प्रकार कि हजार नेत्र वाले इन्द्र, अपने चमकदार धनुष को प्रकट करने के लिये मेघों के झुण्ड को आज्ञा देता है ॥ ४३ ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद् वृषध्वजः ॥ ४४ ॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुवीक्ष्याददे जग्राह । वृषो ध्वजश्चिह्न यस्य स शिवो येन धनुषा । क्रतुरेव मृगः। विद्रुतं पलायितं क्रतुमृगमनुसरति । ताच्छील्ये णिनिः । तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥
अन्वयः-दाशरथिः प्रसुप्तभुजगेन्द्रभीषणं तत् धनु: वीक्ष्य आददे, वृषध्वजः येन विद्रुतक्रतुमृगानुसारिणं बाणम् असृजत् ।
व्याख्या-दशरथस्यापत्यं पुमान् दाशरथिः = रामः, प्रसुप्तः =शयितः, यः भुजगानां = सर्पाणाम् इन्द्रः = स्वामी महासर्प इत्यर्थः। इति प्रसुप्तभुजगेन्द्रः। प्रसुप्तभुजगेन्द्र इव भीषणं = भयंकरमिति प्रसुप्तभुजगेन्द्रभीषणम् तत् = धनुः वीक्ष्य = दृष्ट्वा आददे = जग्राह वृषः = वृषभः ध्वजः =चिह्नम् , अस्य स वृषध्वजः = शिवः, येन = धनुषा ऋतुरेव मृगः = हरिणः, इति क्रतुमृगः । विद्रुतः = पलायितः यः क्रतुमृगस्तम् अनुसरति = अनुगच्छतीति विद्रुतऋतुमृगानुसारी तं तथोक्तम् । बाणं = शरम् , असृजत् = अमुचत् = त्यक्तवानित्यर्थः।
समासः-भुजगानामिन्द्रः भुजगेन्द्रः प्रसुप्तो यः भुजगेन्द्र इति प्रसुप्तभुजगेन्द्रः, प्रसुप्तभुजगेन्द्र इव भीषणं तत् , प्रसुप्तभुजगेन्द्रभीषणम् । वृषः ध्वजः यस्य स वृषध्वजः। क्रतु