________________
३०
रघुवंशे
न्तात्कर्मणि क्तः । ‘अर्तिह्री - ' इत्यादिना पुगागमः । ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयावमत्य प्रतस्थिरे प्रस्थिताः ॥
अन्वयः - हे तात! तेन धनुषा बहवः धनुर्भूतः नरेश्वराः हेपिताः, हि "ते" ज्यानिघातकठिनत्वचः स्वान् भुजान् धिक् इति विधूय प्रतस्थिरे ।
व्याख्या—तनोति = विस्तारयति गोत्रमिति तातः, तत्संबुद्धौ हे तात = हे पूज्य ! तेन = प्रसिद्धेन शैवेन धनुषा = चापेन बहवः = भूरिशः धनूंषि विभ्रतीति धनुर्भृतः = चापधारिणः, नराणां = मनुष्याणाम् ईश्वराः = ईशाः राजानः, इति नरेश्वराः हेपिताः = लज्जां प्रापिताः । “ते नरेश्वराः” ज्यायाः = मौर्व्याः निघाताः = अभिघाताः प्रहारा इत्यर्थः । तैः कठिना = कठोरा त्वक् = चर्मं येषां ते ज्यानिवातकठिनत्वचः । “मौर्वी ज्या शिञ्जिनीगुणः” इत्यमरः। “त्वक् स्त्री चर्मणि” इति मेदिनी । स्वान् = निजान् भुजान् = बाहून् धिक्कयतीति धिक् धिक्कारः इति =एवं विधूय = तिरस्कृत्य प्रतस्थिरे प्रस्थिताः = इतः गता इत्यर्थः ।
समासः—नराणामीश्वराः नरेश्वराः । धनुषां भृतः धनुर्भृतः । ज्यायाः निघाताः, ज्यानिघातास्तैः कठिना त्वक् येषां ते ज्यानिघातकठिनत्वचः ।
हिन्दी – " और " हे तात इस धनुष ने बहुत से धनुर्धारी राजा महाराजाओं को लज्जित, अपमानित कर दिया है। और वे राजा धनुष की डोरी की रगड़ ( आघात ) से जिनमें घट्टे पड़ गये, ऐसी अपनी भुजाओं को धिक्कारते हुये चले गये हैं ॥ ४० ॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ४१ ॥
ऋषिस्तं प्रत्युवाच । किमिति । अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः । ' युगपर्याप्तयोः कृतम्' इत्यमरः । अव्ययं चैतत् । 'कृतं निवारणनिषेधयोः' इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् । किंत्वशनिर्वज्रो गिराविव । चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥
अन्वयः - ऋषिः तं प्रति उवाच, अयं सारतः निशम्यताम् अथवा गिरा कृतम्, “किन्तु " अशनिः गिरौ इव चापे एव भवतः व्यक्तशक्तिः भविष्यति ।
व्याख्या - ऋषिः = विश्वामित्रः तं = जनकं प्रति उवाच = प्रत्युक्तवान् । “यत्" अयं =रामः सारेण इति सारतः = बलेन निशम्यताम् = श्रूयताम् । “सारो बले स्थिरांशे च " इत्यमरः । अथवा = यद्वा गिरा = वाण्या, रामबलवर्णनेनेत्यर्थः । कृतम् = अलं व्यर्थमित्यर्थः "कृतं युगेऽलमर्थे स्यद्विहिते हिंसिते त्रिषु ” इति मेदिनी । कथनं व्यर्थं प्रत्यक्षमवलोक्यतामित्यर्थः । “किन्तु” अश्नाति, अश्यतेऽनेन वा अशनिः = वज्रः गिरौ = पर्वते इव = यथा धनुषि = चापे एव भवतः = तत्र जनकस्य व्यक्ता = स्फुटा शक्तिः = सारः यस्य स व्यक्तशक्तिः “व्यक्तः स्फुटमनीषिणोः” इति मेदिनी । दृष्टबलः रामः भविष्यति ।
समासः - व्यक्ता शक्तिः यस्य स व्यक्तशक्तिः ।