SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ २४ रघुवंशे सः=मुनिः मिथिलां =जनकपुरी व्रजन् = गच्छन्, तस्य = जनकरय यत् धनुः = शिवचापं तस्य श्रवणम् =आकर्णनं तेन जातमिति तद्धनुःश्रवण कुतूहलं =कौतुकम् औत्सुक्यमित्यर्थः । बिभ्रतौ = धारयन्तौ राघवौ =रामलक्ष्मणौ अपि निनाय = निन्ये, सहैव नीतवान् । समासः--सम्भृतः क्रतुः येन स सम्भृतक्रतुः। तस्य धनु : तद्धनुः, तद्धनुषः श्रवणं तेन जातमिति तद्धनुःश्रवणजम् , तत् । हिन्दी-“सीता जी के स्वयंवर के लिये" धनुष यज्ञ की तैयारी कर मिथिला के राजा जनक ने, महर्षि विश्वामित्र को निमंत्रित किया। अर्थात् विश्वामित्र जी को बुलाया। और मिथिला नगरी को जाते हुये, जितेन्द्रिय विश्वामित्र जी राजा जनक के धनुष के सुनने से उत्पन्न हुये कुतूहल ( उत्सुकता ) से भरे (युक्त) उन दोनों राजकुमारों को भी साथ ले गये। विशेष-राजा जनक ने धनुषयज्ञ में मुनि को बुलाया था। तभी विश्वामित्र जी ने रामलक्ष्मण को धनुष की कथा सुनाई कि यह शिव जी का धनुष है। इसे कोई उठा या झुका नहीं सका है। जो इसे तोड़ेगा, या चढ़ा देगा, उसीसे सीता का विवाह होगा। यह सुनकर इसे देखने को दोनों भाइयों को बड़ी उत्कण्ठा हुई । अतः महर्षि इन दोनों को साथ लेकर जनकपुरी गये थे ॥ ३२ ॥ तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥ गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुपु वसतिः स्थानमगृह्यत । येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पनी। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । अहल्येति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥ ____अन्वयः-गताध्वभिः तैः सायं शिवेषु आश्रमतरुषु वसतिः अगृह्यत, येषु दीर्घतपसः परिग्रहः वासवक्षणकलत्रतां ययौ । ___ व्याख्या-अत्ति पथिकानां बलं यः सोऽध्वा = मार्गः। गतः = अतिक्रान्तः अध्वा = मार्गः यैस्ते गताध्वानस्तैः गताध्वभिः तैः = त्रिभिः, कौशिकरामलक्ष्मणैः सायं = प्रदोषे रात्रावित्यर्थः, शिवेपु = रम्येषु आश्रमस्य = तपोवनस्य, मठस्येत्यर्थः। तरवः = वृक्षास्तेषु आश्रमतरुपु, वसन्ति जनाः अस्यां सा वसतिः = वासः अगृह्यत = गृहीता, येषु = आश्रमवृक्षेषु दीर्घम् = आयतं, महदित्यर्थः तपः = तपस्या यस्य स दीर्घतपारतस्य दीर्घतपसः = गौतमस्य परिगृह्यते, परिगृह्णाति वा परिग्रहः = पत्नी = अहल्या “पत्नी परिजनादान-भूलशापाः” इत्यमरः। वासवस्य = इन्द्रस्य क्षणं = किंचित्कालं कलत्रं = स्त्री इति वासवक्षणकलत्रं, तस्य भावस्तत्ता, तां वासवक्षणकलत्रतां ययौ = गता। ___ समासः-गतः अध्वा यैस्ते, तैः गताध्वभिः । आश्रमस्य तरवस्तेषु आश्रमतरुषु । दीर्घ तपो यस्य स दीर्घतपाः, तस्य दीर्वतपसः। कलत्रस्य भावः कलत्रता । वासवस्य क्षणं कलत्रता वासवक्षणकलत्रता, तां तथोक्ताम् । हिन्दी-"कुछ" मार्ग ( दूर ) चलनेपर उन तीनों ने सायंकाल सुन्दर आश्रम के उन वृक्षों के तले निवास किया, पड़ाव डाल दिया। जिन सुन्दर वृक्षों के तले महान् तपस्वी
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy