SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ रघुवंशे १८ विशेष-आश्रम के उक्त तीन विशेषणों से महाकवि ने यह दर्शाया है कि अतिथियों के सत्कार की भावना, और विनयशीलता तथा शान्ति, इस तपोवन में सर्वदा रहती थी॥ २३॥ तत्र दीक्षितमृषि ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः । क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिरन्धतमसागाढध्वान्तात् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' इति समासान्तोऽप्रत्ययः । लोकमिव ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः ।। अन्वयः-तत्र दशरथात्मजौ दीक्षितं ऋषिं शरैः विघ्नतः, क्रमोदितौ शशिदिवाकरौ रश्मिभिः अन्धतमसात् लोकम् इव ररक्षतुः । __ व्याख्या-तत्र =आश्रमे आत्मनः = देहात् जातौ = उत्पन्नौ आत्मजौ । दशरथस्य आत्मजौ = पुत्रौ, इति दशरथात्मजौ = रामलक्ष्मणौ दीक्षा = प्रारम्भिकसंस्कारविशेषः, संजाता अस्यासौ दीक्षितस्तं दीक्षितं = यशियसंस्कारसंस्कारित मित्यर्थः ऋषि = विश्वामित्रं शरैः = बाणैः विघ्नेभ्यः, इति विघ्नतः = अन्तरायेभ्यः "विघ्नोऽन्तरायः प्रत्यूहः” इत्यमरः । क्रमेण = पर्यायेण रात्रिदिवसयोः उदितौ = उदयं गतौ, इति क्रमोदितौ, दिवा = दिनं करोतीति दिवाकरः । शशी च दिवाकरश्चेति शशिदिवाकरौ= चन्द्रसूयौँ रश्मिभिः = मयूखैः, किरणैरित्यर्थः । अन्धयतीति अन्धम् , अन्धं च तत्तमश्चेति, अन्धतमसं तस्मात् , अन्धतमसात् = घनान्धकारात् 'ध्वान्ते गाढेऽन्धतमसमि'त्यमरः । लोक = भुवनम् इव = यथा ररक्षतुः = रक्षतः स्म, लोकरक्षणे प्रवृत्ती, अभूतामिति यावत् । समासः-दशरथस्य आत्मजौ, इति दशरथात्मजौ। अन्धं च तत्तमः, अन्धतमस्तस्मात् अन्धतमसात् । शशी च दिवाकरश्चेति शशिदिवाकरौ। क्रमेण उदितौ, क्रमोदितौ । हिन्दी-उस तपोवन में दशरथ जी के कुमार राम लक्ष्मण ने पारी-पारी से, यज्ञ की दीक्षा में बैठे ऋषि विश्वामित्र की अपने बाणों से उसी प्रकार विनों से ( राक्षसों के उपद्रवों से ) रक्षा की, जैसे कि पारी-पारी से ( रात में चन्द्र, दिन में सूर्य ) उदित होकर चन्द्र सूर्य अपनी किरणों के द्वारा घोर अन्धकार से संसार की रक्षा करते हैं ।। २४ ।। वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवकुसुमस्थूलैः। 'रक्तकस्तु बन्धूको बन्धुजीवकः' इत्यमरः । रक्तबिन्दुभिः । प्रदूषितामुपहतां वेदिं वीक्ष्य । अपोढकर्मणां त्यक्तव्यापाराणाम् । च्युता विकतनुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत् । विकङ्कतग्रहणं खदिराद्युपलक्षणम् । स्रुगादीनां खदिरादिप्रकृतिकत्वात् । नुवादिपात्रस्यैव विककृतप्रकृतिकत्वात् । 'विकतः स्रुवावृक्षः' इत्यमरः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy