________________
रघुवंशे तौ सरांसि रसवद्भिरम्बुमिः कूजितैः श्रुतिसुखैः पतत्त्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥ तौ राघवौ कर्मभूतौ सरांसि कर्तणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्त्रिणः पक्षिणः । मुख्यन्तीति सुखानि। पचाद्यच् । श्रुतीनां सुखानि। तैः कूजितैः। वायवः सुरभिपुष्परेणुभिः । जलदाश्छायया च सिषेविरे इति सर्वत्र संबध्यते॥
अन्वयः-तौ सरांसि रसवद्भिः अम्बुभिः, पतत्रिणः श्रुतिसुखैः कूजितैः, वायवः सुरभिपुष्परेणुभिः, जलदाः छायया च सिषेविरे। ___ व्याख्या-तौ =रामलक्ष्मणौ “कर्मभूतौ” स्रियन्ते, इति सरांसि = तडागाः “इदं कर्तृपदम्", रसः =खादः अस्ति येषु तानि रसवन्ति, तैः रसवद्भिः मधुरैः अम्बुभिः = जलः सिषेविरे। पतत्राणि = पत्राणि सन्ति येषान्ते पतत्त्रिणः = पक्षिणः श्रुतीनां = कर्णानां सुखानि = सुख्कराणि तैः, कूजितैः = अव्यक्तध्वनिभिः सिषेविरे। वायवः = मरुतः सुरभीणि = सुगन्धीनि यानि पुष्पाणि = वुसुमानि तेषां रेणवः = पररागाः तैः। 'सुरभिर्घाणतर्पणः। इष्टगन्धः सुगन्धिः रयादि'त्यमरः । 'रेणईयोः रूि.यां धूलिः परागः सुमनोरजः' इत्यमरः। जलानि ददतीति जलदाः =मेघाश्च छायया = अनातपेन सिषेविरे = सेवितवन्तः। मार्गे गच्छतोः रामलक्ष्मणयोः सरोभिः, पक्षिभिः, पवनैः, मेधैश्च सेवा वृता इति भावः।
समास:-श्रुतीनां सुखानि श्रुतिसुखानि तैः श्रुतिसुखैः । सुरभीणि यानि पुष्पाणि तेषां रेणवस्तैः सुरभिपुष्परेणुभिः ।
हिन्दी-सरोवरों ने मधुर स्वाद वाला जल पिलाकर और पक्षियों ने कानों को सुखकर कलरव से ( मधुर अस्पष्ट ध्वनि से ) तथा वायु ने सुगन्धित पराग से, और बादलों ने शीतल छाया से "मार्ग में" उन दोनों राजकुमारों की सेवा की ॥ ११ ॥
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥ ___ तप एषामरतीति तपस्विनः । 'तपःसहस्राभ्यां विनीनी' इति विनिप्रत्ययः । लघुनेष्टेन । 'त्रिविष्टेऽत्पे लघुः' इत्यमरः । तयोरुभयोः कर्मभूतयोः। दर्शनेन यथा प्रीतिमापुः तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥
अन्वयः-तपस्विनः लहुना तयोः दर्शनेन यथा प्रीतिम् आपुः तथा कमलशोभिनाम् अम्भसां, परिश्रमच्छिदां शाखिनां च, दर्शनेन प्रीति न आपुः।।
व्याख्या-तपः अरित येषां ते तपस्विनः =तापसाः “तपस्वी तापसः पारिकांक्षी" इत्यमरः। लघुना = इष्टेन “त्रिविष्टेऽल्पे लघुः” इत्यमरः। तयोः = उभयोः = द्वयोः ( रामलक्ष्मणयोः ) दर्शनेन = अवलोकनेन यथा =यादृशीं प्रीतिं = प्रसन्नतां सन्तोषमित्यर्थः आपुः = प्राप्तवन्तः । तथा = तादृशीं कं = जलं, अलन्ति = भूषयन्तीति, तैः । कमलेः = पौः वा शोभन्ते = शालन्ते, इति कमलशोभिन स्तेषां कमलशोभिनाम् , “तथा" अम्भसा = जलानां, सरोवराणामिति यावत् । दर्शनेन, “तथा" परिश्रमं = खेदं छिन्दन्ति = दूरीकुर्वन्तीति परिश्रमच्छिदस्तेषां