________________
रघुवंशे भिनत्ति कूलमिति भिद्यः । 'भिद्योद्धयौ नदे' इति क्यबन्तौ निपातितौ। उद्ध्यभिद्ययोर्नदविशेषयो
र्नामधेयसदृशं नामानुरूपं विचेष्टितमिव । उदकोज्झनकूलभेदनरूपव्यापार इव । समयोत्पन्नं चापलमपि शोभत इति भावः॥
अन्वयः-वीचिलोलभुजयोः तयोः, तोयदागमे उद्धयभिद्ययोः नामधेयसदृशं विचेष्टितम् इत्र चपलम् अपि गतं शैशवात् अशोभत ।
व्याख्या–वयति, ऊयते वा वीचिः। वीचिः =तरंग इव लोलाः = चंचलाः भुजाः = बाहवो ययोस्तौ, तयोः, वोचिलोलभुजयोः तरंगवच्चपलयोरित्यर्थः । तयोः =रामलक्ष्मणयोः चपलं = चञ्चलमपि गतं = गमनम् 'भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिरि'त्यमरः । शिशोर्भावः शैशवं तस्मात् शैशवात् = बाल्यात् , तोयदानां = मेघानाम् आगमः, तस्मिन् तोयदागमे = वर्षाकाले, उज्झति उदकमिति उद्धयः । भिनत्ति विदारयति कूलमिति भिद्यः । उद्धयश्च भिद्यश्चेति उद्धयभिद्यौ = नदविशेषौ, तयोः । नामधेयस्य = नाम्नः सदृशं = तुल्यं, उद्धय भिद्येति नाम्नोऽनुरूपमित्यर्थः । विचेष्टितं = जलोत्सर्गरूपं तटभेदनरूपं च, इत्र = यथा अशोभत = शुशुभे, रराज । बाल्यकालानुरूपं कुमारयोः चापलमपि शोभते, इति । __ समासः-वीचयः इव लोलाः भुजाः ययोस्तो, तयोः। तोयदानाम् , आगमस्तस्मिन् तोयदागमे । उद्धयश्च भिद्यश्चेत्यनयोः द्वन्द्वस्तयोः उद्धयभिद्ययोः। नामधेयेन सदृशमिति तत् नामधेयसदृशम् ।
हिन्दी-लहरों के समान चञ्चल भुजाओं वाले उन दोनों राजकुमारों का फुर्तीला चपल ( चुलबुला ) गमन बचपन के कारण ऐसा मनोहर लग रहा था, मानो वर्षा ऋतु के आने पर ( वर्षा के समय ) उद्धय और भिद्य नाम के दो नद उछलते कूदते और किनारों को तोड़ते हुवे जा रहे हों । अर्थात् समय तथा अवस्था के अनुसार चपलता एवं उछल कूद भो सुन्दर लगते हैं ॥ ८॥
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ९ ॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्लतुः । न म्लानावित्यर्थः । अत्र रामायणश्लोकः-'क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतः पथि राघव' ॥
अन्वयः–मणिकुट्टिमोचितौ तौ मुनिप्रदिष्टयोः बलातिबलयोः विद्ययोः प्रभावतः मातृपार्श्वपरिवर्तिनौ इव पथि न मम्लतुः । ___ व्याख्या-कुट्टनं कुट्टः । कुट्टेन निर्वृत्तं कुट्टिमम् । “कुट्टिमोऽस्त्री निबद्धा भूः” इति कोषः । मणीनां =रत्नानां कुट्टिमाः = निबद्धभूमयस्तत्र उचितौ = अभ्यस्तौ, इति मणिकुट्टिमोचितौ, रत्नजडितभूमिप्रदेशे संचरितुं योग्यौ, इत्यर्थः तौ =रामलक्ष्मणौ मुनिना = कौशिकेन प्रदिष्टे = उपदिष्टे तयोः । विश्वामित्रदत्तयोरित्यर्थः । बला = एतन्नामकमन्त्रः, अतिबला = शक्ति