________________
दशमः सर्गः स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् ||८४॥ संजी०-स इति । स चतुर्धा। 'संख्याया विधार्थे धा' (पा. ५।३।४२ ) धाप्रत्ययः । व्यस्तो विभक्तः पृथिवीपतेदशरथस्य प्रसवः संतानः । चतुर्धाऽङ्गवान् मूर्तिमान् धर्मार्थकाममोक्षणामवतार इव बभौ ।।८४॥
अन्वयः- सः चतुर्धा व्यस्तः पृथिवीपतेः प्रसवः "चतुर्धा' अङ्गवान् धर्मार्थकाममोक्षणाम् अवतारः इव बभौ।।
व्याख्या-सः- पूर्वोक्तः चतुर्भिः प्रकारैः चतुर्धा व्यस्तः कृतविभागः पृथिव्याः =भूमेः पतिः-स्वामी, इति पृथिवीपतिस्तस्य पृथिवीपतेः-दशरथस्य प्रसव: प्रसूतिः, अंगानि अस्यास्तीति अंगवान् चतुर्धा मूर्तिमान् धर्मश्च अर्थश्च कामश्च मोक्षश्चेत्येतेषामितरेतरयोगः धर्मार्थकाममोक्षास्तेषां धर्मार्थकाममोक्षाणां-पुरुषार्थानाम् विष्णोः मूर्त्यन्तरेण पृथिव्यामवतरणम् अवतारः प्राविर्भावः इव-यथा बभौ-शुशुभे ।। ___समासः-पृथिव्याः पतिः, पृथिवीपतिस्तस्य पृथिवीपतेः । धर्मश्च अर्थश्च कामश्च मोक्षश्च धर्मार्थकाममोक्षाः।
हिन्दी-रामलक्ष्मण भरतशत्रुघ्न इन रूपों में बटी हुई राजा दशरथ की संतान ऐसी सुन्दर लग रही थी, मानो शरीर धारण किये (मूर्तिमत् ) हुए धर्म अर्थ काम मोक्ष के अवतार हों। अर्थात् चारों पुरुषार्थ सशरीर अवतरित हो गये हैं, ऐसा प्रतीत हो रहा था ॥४॥
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥८५।। संजी०- गुणैरिति । गुस्वत्सलाः पितृभक्तास्ते कुमारा गुणविनयादिभिर्गुरुं पितरम् । चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् । तद्धितार्थ-' (पा. २।१।५१ ) इत्यादिनोत्तरपदसमासः । तं दशरथमेव महार्णवाश्चत्वारो रत्नेरिव । आराधयामासुरानन्दयामासुः ॥५॥
अन्वयः-गुरुवत्सलाः ते गुणैः गुरुं चतुरन्तेशं तम् एव महाणवाः रत्नैः इव भाराधयामासुः।