________________
दशमः सर्गः
,
व्याख्या - प्रकरण दोप्यते, प्रदीपयति वा प्रदीपः रघोः वंशः रघुवंशः, रघुवंशस्य = रघुकुलस्य प्रदीपः = दीपः - प्रकाशकः इति रघुवंशप्रदीपस्तेन रघुवंशप्रदीपेन न प्रतिमा = सादृश्यं यस्य तत् प्रप्रतिमम् | अप्रतिमं = सर्वाधिकं तेजः= प्रभावः यस्य स तेन अप्रतिमतेजसा तेन रामेण रक्षायाः सूतिकायाः गृहं भवनमिति रक्षागृहं तत्र गताः = प्राप्ताः स्थिता इत्यर्थः इति रक्षागृहगताः दीपाः = प्रदीपाः प्रत्यादिष्टाः = प्रतिषिद्धाः इव यथा श्रभवन् - जाताः । रामस्य तेजसा ते दीपाः पराभूताः निस्तेजस इव जाता इत्यर्थः । महाप्रदीपस्य समीपे लघुदीपो न स्फुरतीत्यर्थः ।
३८३
=
समासः - रघोः वंशः रघुवंशः, तस्य प्रदीपस्तेन रघुवंशप्रदीपेन । श्रप्रतिमं तेजो यस्य सः अप्रतिमतेजाः तेन श्रप्रतिमतेजसा । रक्षायाः गृहं रक्षागृहं, वत्र गताः इति रक्षागृहगताः ।
हिन्दी - रघु के कुल को प्रकाशित करने वाले, सबसे तेजस्वी राम से प्रसूति ( सौड़ी ) घर में रखे हुए दीपक ( दीये ) मानो क्षीणकान्ति ( फीके ) हो गये । अर्थात् महादीप के सामने छोटा सा जुगनू क्या चमकेगा ||६८ ||
शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा || ६९ ॥
संत्री - शय्येति । शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण । संकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव । बभौ ||३९||
अन्वयः - शातोदरी माता शय्यागतेन रामेण सैकताम्भोजवलिना शरकृशा जाह्नवी इव बभौ ।
कृशोदरी मान्यते = पूज्यते इति माता कौसल्या शय्यागतेन रामेग - नवजात शिशुनासिकतानां वालुकामये तटे यः अम्भोजानां = कमलानां शीर्यन्ते पाकेोषत्रयो यस्यां सा शरत् । इति शरत्कृशा जह्नोः कन्या जाह्नवी भागीरथी गङ्गा इव यथा बभौ = शुशुभे ।
व्याख्या - शातं = कृशं प्रसवादित्यर्थः, उदरं = जठरं यस्याः सा शातोदरी = शय्यायां पर्यङ्के गतः = प्राप्तः, तेन विकारः सैकतं तस्मिन् सैकते = बलिः = उपहारः तेन श्रम्भोजबलिना शरदि = शरहृतौ कृशा सूक्ष्मा तन्वी,