________________
रघुवंशमहाकाव्ये सुमित्राभ्यः पत्नीभ्यः तथा तेन प्रकारेण विधा-प्रकारः येषां ते तान् तथाविधान्= पूर्वोक्त प्रकारान् स्वप्नान् स्वापान् श्रुत्वा-आकर्ण्य प्रीत:-प्रसन्नः सन् प्रात्मानं= स्वं गच्छतीति जगत् तस्य जगतः-संसारस्य गुरुः, इति जगद्गुरुस्तस्य जगद्गुरोः= विष्णोः गृणाति धर्मादि, गिरति अज्ञानं वा गुरुः गुरोर्भावः गुरुत्वं तेन गुरुत्वेन= पितृत्वेन कारणेन परस्मिन्नर्धे भवः पराय॑स्तं पराध्यं सर्वोत्तमं मेने अमंस्त हि निश्चयेन ।
समापः-तथा विधा येषां ते तान् , तथाविधान् । जगतः गुरुः जगद्गुरु. स्तस्य जगद्गुरोः । परस्मिन् अर्धे भवः परायस्तं पराय॑म् ।
हिन्दी-राजा दशरथ जी, अपनी तीनों रानियों से, उम प्रकार के स्वप्नों को सुनकर तथा प्रसन्न होकर संसार के गुरु विष्णु भगवान् का भी गुरु ( पिता) होने के कारण अपने को सबसे उत्कृष्ट माना। अर्थात् संसार में सबसे उत्तम पौर बड़ा अपने को मान लिया ॥६४॥
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥६५।। संजी०-विभक्तेति । एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु । प्रसन्नानां निर्मलानामां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव । अनेकधा विभक्तात्मा सन् उवास ॥६५॥
बान्वयः- एक: विभुः तासां कुक्षिषु, प्रसन्नानाम् अपां “कुक्षिषु" प्रतिमाचन्द्रः इव अनेकधा विभक्तात्मा सन् उवास । __व्याख्या-एक:-एकरूपः अद्वितीयः विभुः-व्यापकः प्रभुः विष्णुरित्यर्थः तासां कौसल्याकैकयीसुमित्राणां कुष्यते निष्कास्यते-मलो येभ्यः ते कुक्षयस्तेषु कुक्षिषु = उदरेषु = गर्भेषु, इति यावत् , प्रसन्नानां - स्वच्छानां निर्मलानामित्यर्थः प्राप्नुवन्ति, प्राप्यन्ते वा आपः, तासाम् अपां-जलानां कुक्षिषु प्रतिमा प्रतिबिम्बश्चासौ चन्द्रः- इन्दुरिति प्रतिमाचन्द्रः इव-पथा अनेकधा-अनेकप्रकारेण विभक्तः विभिन्नः प्राप्तविभागः प्रात्मा-स्वरूपं यस्य स विभक्तात्मा सन् उवास-वसति स्म।
समासः-प्रतिमा चासौ चन्द्रः प्रतिमाचन्द्रः। विभक्तः आत्मा यस्य स विभक्तात्मा ।