________________
३७६
रघुवंशमहाकाव्ये
अत एव प्रापाण्डुरत्विष ईषत्पाण्डुरवर्णास्ताः राजपत्न्यः फलारम्भाः फलप्रादुर्भावा यासां ताः सस्यानां संपद इव । रेजुर्बभुः ||५९||
| अन्तर्गता गुप्ताः
अन्वयः - समम् आपन्नसत्त्वा: "अत एव " आपाण्डुरत्विषः ताः अन्तर्गत फलारम्भाः सस्यानां सम्पदः इव रेजुः ।
व्याख्या-समम् - युगपत् - एक कालमित्यर्थः आपन्नसत्वाः=गर्भिण्यः, श्रुतएव प्रा- ईषत् किंचित् पाण्डुरा पीता त्विट्= कान्तिः यासां ताः आपाण्डुरत्विषः ताः=दशरथपत्न्यः, अन्तर्गता:= अन्तलींना: फलानां संस्थानाम् प्रारम्भाः प्रादुर्भावाः यासां ताः अन्तर्गत फलारम्भाः सस्यानां धान्यानां
सम्पदः = सम्पत्तयः
इव = यथा रेजुः = शुशुभिरे ।
समासः -- भापन्नाः सत्त्वाः यासु ताः श्रपन्नसत्त्वाः । श्रा पाण्डुरा त्विट् यासां ताः प्रापाण्डुरत्विषः । फलानाम् श्रारम्भाः इति फलारम्भाः, श्रन्तर्गताः फलारम्भाः यासां ताः अन्तर्गतफलारम्भाः ।
हिन्दी - एक साथ ही जिन के ( पेट ) में प्राणी आ गये ( गर्भरणी हुई ) और इसी कारण कुछ कुछ पोली कान्ति वाली वे दशरथकी रानियां वैसी ही सुन्दर लगती थीं, जैसी कि जिन के अन्दर दाने पड़ने लगे हों, ऐसी धान की पीली पीली बाले सुन्दर लगती हैं ||५९ ||
संप्रति तासां स्वप्नदर्शनान्याह -
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिगदाशाङ्गचक्रान्तमूर्तिभिः ॥६०॥
संजी० - गुप्तमिति । सर्वास्ताः स्वप्नेषु जलजः शङ्खः । जलजासिगदाशार्ङ्गचकैर्लाञ्छिता मूर्तयो येषां तवमिनेर्हस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ||६०||
अन्वयः - सर्वाः "ता: " स्वप्नेषु जलजा सिगदाशाङ्ग चक्रलान्छितमूर्तिभिः वामनैः गुप्तम् श्रात्मानं ददृशुः । व्याख्या—सर्वास्ताः
कौसल्याकैकेयीसुमित्राः
स्वप्नेषु = स्वापेषु, जले
जातः=उत्पन्नः जलजः = शङ्खः । प्रसति - द्योतते इति असिः कौक्षेयकः । गदा =
二
कौमोदकी । शृंगस्य विकारः शाङ्ग - धनुः । शंखश्च श्रसिश्च गदा च शार्ङ्ग च