________________
रघुवंशमहाकाव्ये इति हेतोः अन्येन अमरेण न प्रार्थनीय इति । हि-तथाहि वातः वायुः स्वयमेव प्रारमनैव अग्ने:-वह्नः सारथ्यं = सहायता प्रतिपद्यते-प्राप्नोति । पवनः प्रार्थना विनैव अग्नेः साहाय्यं करोतीति अहमपि तथैवेत्यर्थः ।
समासः--एकं कार्य ययोस्तौ एककार्यो, एककार्ययोः भावः एककार्यत्वं तस्मात् एककार्यत्वात् ।
हिन्दी-और हे देवो ! “असुरों को मारकर लोक का पालन करना" मेरा तथा देवराज का एक कार्य होने के कारण, कर्तव्य के प्रति इन्द्र को मुझसे प्रार्थना नहीं करनी चाहिये, इसलिये कि पवन देव अग्नि की सहायता के लिये स्वयमेव आ जाता है । अर्थात् बिना ही प्रार्थना के अग्नि को पवन सहायता करता है ॥४०॥
पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकंधरेण यद्दशमं शिरोऽ. वशेषितं तन्मच्चक्रार्थमित्याह---
स्वासिधारापण्डितः कामं चक्रस्य तेन मे।
स्थापितो दशमो मृर्धा लभ्यांश इव रक्षसा ॥४१॥ संजी०-स्वेति । स्वासिधारया स्वखड्गधारया परिहृतः । अच्छिन्न इत्यर्थः । दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः । तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥४१॥
अन्वयः---स्वासिधारापरिहृतः दशमः मूर्धा मे चक्रस्य कामं लभ्यांशः इव तेन रक्षसा स्थापितः (अस्तीति शेषः )।
व्याख्या-स्वस्य-रावणस्य असिः स्वासिः । स्वासे: चन्द्रहासस्य-स्वखड्गस्य धारा-मुखम् स्वासिधारया स्वखड्गतक्ष्ण्येन परिहृतः अच्छिन्नः इति स्वासिधारापरिहृतः स्वखड़गेनाकर्तित इत्यर्थः, दशानां पूरणः दशमः दशसंख्यापूरकः मूर्धा मस्तकः, मे मम विष्णोः चक्रस्य =सुदर्शनस्य कामं यथेष्टम् लभ्यः प्राप्तव्यश्चासौ अंशः भागः इति लभ्यांशः इव-यथा तेन-प्रसिद्धेन रक्षसा-रावणेन स्थापितः= सुरक्षितः, अस्तीति शेषः । तत्सर्वथा मया हन्तव्य एवेति भावः ।
समासः -स्वस्य असिः स्वासिः, तस्य धारा, तया परिहृतः इति स्वासिधारापरिहृतः । लभ्यश्चासौ अंशः, लम्यांशः ।