________________
३५४
रघुवंशमहाकाव्ये 'युक्त क्षमादावृते भूतम्' इत्यमरः । न स्तुतिर्न प्रशंसामात्रम् । महान्तो हि यथाकथंचिन्न सुलभा इति भावः । परमे स्थाने तिष्ठतीति परमेष्ठी । 'परमे कित्' ( उणा. ४५० ) इत्युणादिसूत्रेण तिष्ठतेरिनिः । 'तत्पुरुषे कृति बहुलम्' (पा. ६।२।२) इति सप्तम्या अलुक् । 'स्थास्थिन्स्थूणाम्' इति वक्तव्यात्पत्वम् ।।३६।।।
अन्वयः-इति ते सुराः अधोक्षजं तं प्रसादयामासुः हि परमेष्टिनः सा भूतार्थव्याहृतिः न स्तुतिः ।
व्याख्या-इति-पूर्वोक्तेन प्रकारेण ते पूर्वोक्ताः प्रसिद्धाः सुरा: देवाः प्रक्षात् जातम् प्रक्षजम् । अधः कृतम् अक्षजम् इन्द्रियजन्यं ज्ञानं यस्मिन् सः अधोक्षजस्तम् अधोक्षजम् । यद्वा अधोक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षो भवति, अधोक्षजस्तम् । तं-विष्णु प्रसादयामासुः प्रसन्नं चक्रुः । हि-यस्मात् परमे व्योम्नि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठतीति परमेष्ठी, तस्य परमेष्ठिन:-सर्वोत्तमदेवस्य सा-सुरैः कृता भूतः-सत्यश्चासौ अर्थः-अभिधेयः-वाच्यश्चेति भूतार्थः भूतार्थस्य - सत्यार्थस्य व्याहृतिः =व्याहरणं कथनमिति भूतार्थव्याहृतिः न स्तुतिः=न स्तवनं, प्रशंसा मात्र नेत्यर्थः ।
समासः-अधः अक्षजं यस्मिन् सः अधोक्षजस्तम् अधोक्षजम् । भूतश्चासौ अर्थः भूतार्थः, भूतार्थस्य व्याहृतिरिति भूतार्थ व्याहृतिः।।
हिन्दी-इस प्रकार ( स्तुति करके ) उन देवताओं ने इन्द्रियजन्य ज्ञान को ज्ञात न होने वाले, "अथवा" जितेन्द्रियों को दर्शन देने वाले, विष्णु को प्रसन्न कर लिया, "इसलिये कि" देवों में श्रेष्ठ उस विष्णु की देवताओं से की गई वह स्तुति, प्रशंसामात्र नहीं थी, किन्तु सत्य सर्थ का कथन था ॥३३॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलादाचख्युनैर्ऋतोदधेः ॥४।। संजी०-तस्मा इति । सुरा देवाः कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रोतिर्यस्य तस्मै । लक्षितप्रसादायेत्यर्थः । अन्यथा अनवसरविज्ञप्तिर्मुखराणामिव निष्फला स्यादिति भावः। तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात् । नैऋतो राक्षसः स एवोदधिः । तस्माद्भयमाचख्युः कथितवन्तः ॥३४।।
अन्वयः-सुराः कुशलसंप्रश्नव्यञ्जितप्रीतये तस्मै अप्रलयोद्धेलात् नैर्ऋतोदधेः भयम् श्राचख्युः।