________________
दशमः सर्गः
३४७ द्विषः हताः नष्टाः द्विषः शत्रवो येन स तस्य हतद्विषः शत्रुविनाशकस्येत्यर्थः । जागरणशीलः जागरूकस्तस्य जागरूकस्य- सर्वसाक्षित्वेन सर्वदा प्रबुद्धस्यापि स्वपितोति स्वपन् तस्य स्वपतः योगनिद्रामनुभवतः इत्थं प्रकारेण विरुद्धचेष्टस्य तव विष्णोः अर्थमनतिक्रयं यथार्थ तस्य भावः याथार्थ्यम् = तात्त्विक स्वरूपं कः जनः वेद जानाति, न कोऽपीति भावः ।।
समासः--निर्गता ईहा यस्मात् स निरीहस्तस्य । हताः द्विषः येन स हतद्विट तस्य हतद्विषः । __ हिन्दी-अजन्मा होते हुए भी मत्स्य कच्छप आदि रूप से जन्म लेने वाले, और निरीह ( इच्छारहित ) होते हुए भी शत्रुओं का संहार करने वाले, तथा योगनिद्रा में सोते हए भी सबके साक्षिरूप से जागरूक ( जागने के स्वभाव वाले ) आपके यथार्थ रूप को कौन जान सकता है। अर्थात् उक्त रूप विरोधि चेष्टावले आपको तत्त्वरूप से कोई भी नहीं जान पाता है ।।२४।।
शब्दादीविषयान्भोक्त चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातमौदासीन्ये न वर्तितुम् ।।२५।। संजी०-शब्देति । किंच, कृष्णादिरूपेण शब्दादीविषयान्भोक्तम् । नरनारायणादिरूपेण दुश्वरं तपश्चरितुम् । तथा दैत्यमर्दनेन प्रजाः पातुम् । औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि । भोग-तपसोः पालनौदासीन्ययोश्च परस्परविरुद्धयोराचरणे त्वदन्यः कः समर्थ इत्यर्थः ॥२५॥
हाम्र- शब्दादीन् विषयान् भोक्तम्, दुश्चरं तपः चरितुम, प्रजाः पातुम, औदासीन्येन वर्तितुं "वं पर्याप्तः असि । ___ व्याख्या-.. शब्दः- ध्वनिः प्रादिः प्रथमः येषां ते शब्दादयः, तान् शब्दादीन् , विसिन्वन्ति निबध्नन्ति इन्द्रियाणि, इति विषयास्तान् विषयान् पदार्थान् भोक्तुम् = अनुभवितुं रामकृष्णादिरूपेण विषयान् भोक्तु, दुःखेन चर्यते यत् तत् दुश्चरं= कर्तृमशक्यं तपः तपस्यां चरितुं कर्तुम् बदरिकाश्रमे नरनारायणरूपेण तपः कर्तुमित्यर्थः । प्रकर्षेण जायन्ते इति प्रजास्ताः प्रजाः-जनान् पातु-रक्षितुं राक्षसानां वधेनेत्यर्थः । उदास्ते इति उदासीनः, उदासीनस्य भावः औदासीन्यं तेन प्रौदासीन्येन ताटस्थ्येन वर्तितुं व्यवहतुं त्वं विष्णुरेव पर्याप्तः अलम् असि भवसि ।